________________
Jain Education
उस्सप्पिणी अनंता, पुग्गलपरिअट्टओ मुणेअघो। तेऽणंता तीअद्धा, अणागयद्धा अनंतगुणा ॥ १३ ॥ सुहुमेणिमिणा | अद्धासागरमाणेण सङ्घजीवाणं । कम्महिइ कायठिई, भवट्टिई यावि नायवा ॥ १४ ॥ वायरसुहुमायासे, खेत्तपएसाणुसमय मवहारे । वायरसुहुमं खेत्तं, उस्सप्पिणिओ असंखिजा ॥ १५ ॥ एएसिं पलाणं, कोडाकोडी हविज दसगुणिआ । तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥ १६ ॥ एएण खेत्तसागर उवमाणेणं हवेज्ज नायवं । पुढ| विदगअगणिमारुअ - हरियतसाणं च परिमाणं ॥ १७ ॥ अत्र अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समयावलि - | कादिभिरनवरतं क्षीयमाणाया अप्यनागताद्धाया अक्षयात्, एतच्च मतान्तरं, तथा च भगवतीविवरणेषु वृद्धगाथा - | अहवा पडुच्च कालं, न सबभवाण होइ वोच्छिती । जं तीयअणागयाओ, अद्धाओ दोषि तुलाओ ॥ १॥ अयमभि| प्रायो - यथा अनागताद्धाया अन्तो नास्ति, एवमतीताद्धाया आदिरिति व्यक्तं समत्वमिति । अधुना सूत्रार्थोऽभि - धीयते - असुरकुमारादयो दशेहभवनपति निकायाः । एकैकस्मिंश्च निकाये द्वौ द्वाविन्द्रौ मेरुरुचकापेक्षया दक्षिणार्द्धाधिप उत्तरार्धाधिपश्च । तत्र प्रथमनिकाये दक्षिणार्धाधिपस्य असुरकुमाराणां राज्ञश्चमरस्य 'सारं' पदैकदेशे पदसमुदायोपचारात् सागरोपमं 'आउमुकोसं' ति पर्यन्तवर्त्तिपदसम्बन्धादुत्कृष्टमायुर्भवतिं । एवं सर्वत्र योज्यं । उत्तरार्धा| धिपस्य बलेरसुरराजस्य तदेवाधिकं, 'चमरबलि'त्ति च सूत्रत्वाच्चमरशब्दाइलिशब्दाच्च षष्ठीलोपः । तयोर्देवीनां पुनर्यथासंख्यमेव त्रीणि चत्वारि पल्यानि एकदेशे समुदायोपचारात् पल्योपमानि सार्द्धानि, चमरेन्द्रदेवीनां सार्द्धानि
For Private & Personal Use Only
www.jainelibrary.org