________________
स्त्वसंज्ञिनो, हिताहितप्राप्तिपरिहारयोः सम्यग्दृष्टिसाध्ययोस्तेषामभावात्, तथा चाह-"सम्मदिठी सन्नी, संते नाणे खओवसमियंमि । असन्नी मिच्छत्तंमि दिठिवाओवएसेणं ॥३॥” अथैतासां मध्ये कस्य जन्तोः का संज्ञा भवतीति व्यक्ताभ्यां क्षमाश्रमणगाथाभ्यामेव प्रदर्श्यते-" पंचण्हमूहसन्ना, हेऊसन्ना बिइंदिआईणं । सुरनारयगब्भुभवजीवाणं कालिगीसन्ना ॥१॥ छउमत्थाणं सन्ना, सम्महिठ्ठीण होइ सुअनाणं । मइवावारविमुक्का, सन्नाईआ उ केवलिणो॥२॥" अत्र 'पंचण्हमूहसन्न'त्ति पञ्चानां-पृथिव्यादीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपा ओघसंज्ञा, पृथिव्यतेजोवायुवनस्पतीनामाहारादिसंज्ञोपलक्षकमोघसंज्ञामात्रमेव न दीर्घिक्यादिसंज्ञात्रयमित्यर्थः २१ । गतिरागतिश्च प्राग्व्याख्याता, जीवाभिगमे तु सूक्ष्मपृथिवीकायिकादयो जीवाः केभ्यो जीवेभ्य उदृत्योत्पद्यन्त इत्युपपातः, त एव खभवाच्युता आनन्तर्येण केषु जीवेषूत्पद्यन्त ? इतिच्यवनं, तथैते कतिषु गतिषु गच्छन्तीति गतिः, कतिभ्यो गतिभ्य आगच्छन्तीत्यागतिश्चाभिहिता, तत्र गत्यागतिसूत्रं दिमात्रं यथा-" सुहुमपुढविकाइआ दुगइआ दुआ-& गइआ, बायरपुढविकाइआ दुगइआ तिआगइआ" इत्यादि २३ । वेदद्वारमपि प्राक् प्रपञ्चितमेव २४ । तदेवं व्याख्याता चतुर्विंशतिद्वारात्मिका गाथाद्वयप्रमाणा संक्षिप्ततरा संग्रहणिः, तद्याख्यानाच श्रीहर्षपुरीयगच्छालङ्कारमलधारिश्रीमदभयदेवसूरिपट्टरत्नश्रीहेमचन्द्रसूरिशिष्यश्रीचन्द्रसूरिचरणाम्बुजचञ्चरीकेण श्रीमुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेन श्रीदेवभद्रसूरिणा विरचिता खगुरुप्रणीतसंग्रहण्याः वृत्तिः समर्थिता ॥
Jan Education international
For Private
Personal use only
www.jainelibrary.org