________________
संग्रहणी
वत्ति :
॥११८॥
व्याख्या-यत्पुनरायुः शेष वा कर्म गाढम्-अत्यर्थ निकाचनम्-अवश्यवेद्यतयाऽवस्थापनं तच तद्वन्धश्च तेन गाढनिकाचनबन्धेन पूर्वमेव किल बद्धं तद्भवत्यनपवर्तनयोग्यं, अत एव क्रमेण-परिपाट्या वेदनीयं-वेद्यं फलं यस्येति क्रमवेदनीयफलम् ॥ २६४ ॥ अत्रायुश्चिन्तायां देवा नारका उत्तमपुरुषाश्चरमशरीरा असंख्यातवर्षायुस्तियङराश्चानपवर्तनीयायुषः शेषास्तूभयथापि, एतदेवाह
उत्तमचरमसरीरा, सुरनेरइआ असंखनरतिरिआ।
हुंति निरुवकमाउ, दुहावि सेसा मुणेअवा ॥ २६५ ॥ उक्तार्था, नवरं उत्तमपुरुषाश्चक्रवर्त्यादयः चरमशरीरास्तद्भवमोक्षगामिनः ॥ २६५ ॥ उपक्रमानुपक्रमावाह
जेणाउमुवकमिजइ, अप्पसमुत्थेण इअरगेणावि ।
सो अज्झवसाणाई, उवक्कमोऽणुवकमो इअरो ॥ २६६ ॥ व्याख्या-येनात्मसमुत्थेन-अध्यवसानादिना इतरकेणापि-बाह्येन विषाग्निशस्त्रादिना आयुरुपक्रम्यते-दीर्घकाल-3 वेद्यं खल्पकालवेद्यतया व्यवस्थाप्यते, सोऽपवर्तनहेतुरध्यवसानादिरूपक्रमो वेदितव्यः, इतरस्तु तद्विपरीतोऽनुपक्रमः ॥ २६६ ॥ तत्रोपक्रमः सप्तधा, तदाह
॥११८॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org