________________
संग्रहणी॥१०५॥
अणुसमयमसंखेज्जा, एगिंदिअ हुंति अ चवंति ॥ २३० ॥ वाइओ अनंता, एक्केकाओवि जं निगोआओ ।
निच्चमसंखो भागो, अनंतजीवो चयइ एइ ॥ २३१ ॥
व्याख्या - इहै केन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चविधाः, तत्राद्याश्चत्वारः स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यत उत्पत्तौ चिन्त्यमानाः प्रत्येकमनुसमयमसंख्याता भवन्ति- उत्पद्यन्ते, असंख्याता एव च च्यवन्ते, न पुनः समयाद्यन्तरेण, नाप्येको द्वौ त्रयः संख्याता वा । वनस्पतिकायिकास्तु स्वस्थानतः प्रतिसमयमनन्ता उत्पद्यन्ते, अनन्ता एव च च्यवन्ते । यदा तु परस्थानत एवोत्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमसंख्याता अप्येते लभ्यन्ते तथाच प्रज्ञापना- " पुढविकाइआणं भंते ? एगसमएणं केवइआ उववजंति ? गोअमा ! अणुसमयं अवि| रहिआ असंखेजा एवं जाव वाउकाइआ, वणरसइकाइआणं भंते! एगसमएणं केवइआ उववजंति ? गोअमा ! सट्टाणोववायं पडुच अणुसमयमविरहिआ अणंता उववज्जंति, परद्वाणोववायं पडुच अणुसमयमविरहिआ असंखेजा" इति, स्वस्थानत एवोत्पद्यमानानां वनस्पतीनामानन्त्ये हेतुं दर्शयति — 'एक्केका ओवि' इत्यादि, यद् - यस्मात्का| रणादेकैकस्मादपि निगोदादसंख्येयोऽभागोऽनन्तजीवात्मको नित्यम् - अविरहितं च्यवते, एति च, अयमत्र भावः
Jain Education International
For Private & Personal Use Only
वृत्तिः
॥१०५॥
www.jainelibrary.org