________________
CARALLELECCLOGALLERY
सिमेव उववायकाले अंगुलासंखेजभागमेत्ता विन्नेआ' इति । वैक्रियावगाहना तु तिरश्चां पर्याप्तवादरवायुकायिकपर्याप्तसंख्यातायुगर्भजपञ्चेन्द्रियाणामेव । तथा “वाउकाअस्स जहन्नेणवि उक्कोसेणवि अंगुलस्स असंखेजइभार्ग, |पंचेंदियाणं जहन्नेणं अंगुलस्स असंखेजइ भागं, उक्कोसेणं जोअणसयपुहत्तं" । उक्तं तिरश्चामवगाहनाद्वारम् , अथोपपातच्यवनविरहद्वारद्वयावसरः-तत्र चैकेन्द्रियाणां प्रतिसमयमुपपातच्यवनयोर्वक्ष्यमाणत्वान्नैतवारद्वयसम्भव इति द्वीन्द्रियादीनामुपपातच्यवनयोर्विरहमेकसमयसंख्यां चाह
___विरहो विगलासन्नीण, जम्ममरणेसु अंतमुहू ॥ २२९ ॥
गब्भे मुहुत्त बारस, गुरुओ लहु समयसंख सुरतुल्ला । ___ व्याख्या-विकलानां-द्वित्रिचतुरिन्द्रियाणामसंजिनां च संमृछिमपञ्चेद्रियतिरश्चां जन्ममरणयोः-उपपातच्यवनयोः प्रत्येकं गुरुक-उत्कृष्टो विरहकालोऽन्तर्मुहूर्त 'गब्भे'त्ति' गर्भजपञ्चेन्द्रियतिरश्चामुपपातच्यवनयोर्विरहकाल | उत्कृष्टो द्वादश मुहूर्ताः, लघुः-जघन्यो विरहकालः सर्वत्र समयः । तथैषामेव द्वीन्द्रियादीनामेकस्मिन् समये उप६ पाते उद्वर्तनायां च संख्या सुरैस्तुल्या-"इगदुतिसंखमसंखा, इगसमए हुंति अ चवंति” । अथैकेन्द्रियाणामुपपात
च्यवनविरहकालो नास्तीति दर्शयन्नत्पद्यमानानामुद्वर्त्तमानानां च विशेषतः संख्यामाह--
CXCAKACOCCANCES
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org