________________
Jain Education in
|ञ्चाशत्सहस्राः कोट्यः ॥ १० ॥ ( ७०५६०००००००००० ) ॥ २९८ ॥ अथ संमूच्छिमपञ्चेन्द्रियस्थलचरादीनां स्थितिमाह
संमुच्छपणिंदिअथलखहयरुरगभुअगजिट्ठठिइ कमसो ।
वाससहस्सा चुलसी बिसत्तरी तिपण बायाला ॥ २१९ ॥
व्याख्या—संमूर्छिमपञ्चेन्द्रिया ये स्थलचरा - गवादयः, खेचराः - पक्षिणो बलाकादयः, उरगाः - सर्पादयः, भुजगाव- गोधादयः, तेषां ज्येष्ठा स्थितिः क्रमाच्चतुरशीतिः, द्वासप्ततिः, त्रिपञ्चाशत्, द्विचत्वारिंशच्च वर्षसहस्राः ॥ २१९ ॥ उक्ता सर्वतिरश्चामुत्कृष्टा स्थितिः, अथैतस्या भवस्थितिरूपतां दर्शयन् स्थितिसाम्यादेषामेव कायस्थितिमाह - एसा पुढवाणं भवट्टिई संपयं तु कायठिई ।
चउ एगिंदिसु नेआ, ओसप्पिणिओ असंखेज्जा ॥ २२० ॥
व्याख्या - एषा - अनन्तरा पृथिव्यादीनां भवस्थितिरायुष्करूपा उक्तेति शेषः । साम्प्रतं पुनरेषामेव कायस्थितिः
For Private & Personal Use Only
w.jainelibrary.org