________________
व्याख्या-इह नरकेषु नारकाः प्रायः सततमुत्पद्यन्ते च्यवन्ते च, कदाचिदेव तु विरहः-अन्तरं, स च लघुकोजघन्यः, सप्तखपि पृथ्वीषु समुदितासु यद्वा प्रत्येकमेकः समयः, गुरुः-उत्कृष्टः पुनरोघे-सामान्यतः सप्तखपि पृथ्वीपु समुदितासु द्वादश मुहूर्ताः, तदनन्तरमवश्यमन्यतमस्यां कश्चिदुत्पद्यते च्यवते च, प्रत्येकं तूत्कृष्ट उपपातच्यवनविरहकालो रत्नप्रभायां चतुर्विंशतिर्मुहूर्ताः शर्करायां सप्त दिनाः वालुकायां पञ्चदश दिनाः पङ्कायां एको मासः धूमायां द्वौ तमःप्रभायां चत्वारः तमस्तमःप्रभायां पण्मासाः । वखान्तरकालादूर्ध्व चावश्यमेतासु कोऽप्युत्पद्यते च्यवते चेति ॥ १८८ ॥ अथैकसमयोपपातच्यवनसङ्ख्याद्वारद्वयमतिदिशन् गाथाशकलमाह
संखा पुण सुरसमा मुणेअवा । व्याख्या-सङ्ख्या पुनरेकस्मिन् समये नारकाणामुपपातविषया च्यवनविषया च सुरसमा ज्ञातव्या । यथा-"इगदुतिसंखमसंखा, इगसमए इंति अ चवंति" ॥ १८८ ॥ अथ के जीवा नरकं यान्तीत्येवंरूपं गतिद्वारमाह
संखाउपजत्तपणिंदितिरिनरा जंति नरएसुं ॥ १८९ ॥ व्याख्या–पञ्चेन्द्रियतिर्यङ्गराः सङ्ख्यातायुपः पर्याप्ताश्च सन्तो यान्ति नरकेषु, एतेऽपि च नरकायुबन्ध
GARAOSASSA
JainEducation intel
For Private Personal Use Only
***
w.jainelibrary.org