________________
जुलानि, पञ्चदश धनूंषि साखौं द्वौ हस्तौ, सार्द्धानि द्वाषष्टिधपि । तत्र शर्करायां किल प्रथमे प्रतरे सप्त धनूंषि
त्रयो हस्ताः षट् चाङ्गुलानि, ततः सप्तभिर्धनुर्भिरष्टाविंशतिहस्ताः, उपरितनहस्तत्रयक्षेपे एकत्रिंशत्, तेषां सवर्ण* नार्थ चतुर्विंशत्या गुणने उपरितनाङ्गुलषटक्षेपे च जातान्यङ्गुलानि सप्त शतानि पंचाशदधिकानि ७५०, तेषां शर्क
रागतैः प्रतरैरेकोनत्वाद्दशभिर्भागे लब्धानि पञ्चसप्तत्यङ्गुलानि ७५, तेषां हस्तानयनाय चतुर्विंशत्या भागे लब्धास्त्रयो हस्तास्त्रीण्यङ्गुलानि, एषा शर्करायां पूर्वपूर्वप्रतरदेहमानस्योपरि प्रत्येकं शेषेषु द्वितीयादिषु दशसु प्रतरेषु वृद्धिः। एवमन्याखपि भावनीयं । सुखावबोधार्थ शर्करावालुकापङ्कधूमतमःप्रभासु यत्रकाणां स्थापना । तमस्तमःप्रभायां त्वेक एव प्रतर इति प्रतरगतवृद्धेरभावात्तस्मिन् यथोक्तानि पञ्चैव धनुःशतानीति ॥ १८४ ॥ १८५ ॥ १८६ ॥ | उक्तं सप्तास्वपि पृथ्वीपु प्रतिप्रतरमुत्कृष्टं नारकदेहमानम्, अथोक्तनारकाणां उत्कृष्टदेहस्य स्वाभाविकतां दर्शयन्नुत्कृष्टोत्तरवैक्रियस्य द्विविधस्यापि च जघन्यस्य मानमाह
इअ साहाविअदेहो, उत्तरवेउविओ य तहुगुणो।
दुविहोवि जहन्न कमा, अंगुलअस्संखसंखंसो ॥ १८७॥ व्याख्या-'इति' उक्तप्रकारेण सप्तखपि पृथ्वीपु नारकाणा देहः स्वाभाविको भवधारणीयापरनामाभिहितः।।
lain Education
For Privale & Personal use only
ww.jainelibrary.org