________________
संग्रहणी
॥ ८४ ॥
*% *% *
खुरप्पसंठाणसंटिआ परमदुग्गंधा ॥ १ ॥ " अत्र 'खुरप्पसंठाणत्ति' भूमितले मसृणत्वाभावतः शर्करिले न्यस्यमानाः | पादाः शर्करामात्रस्पर्शेऽपि क्षुरप्रेणेव प्रहरणविशेषेण कृत्यन्त इति वृद्धाः, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टाः प्रागुक्तवैमानिक विमानन्यायेन वृत्तत्र्यत्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्त्वनेकसंस्थानाः । तत्र चेन्द्रकाः सर्वेऽपि | वृत्तास्तेभ्योऽनन्तरमावलिकागताः सर्वेऽपि त्र्यत्रास्ततोऽपि चतुरस्रास्ततोऽपि वृत्ताः, एवं यावदावलिकापर्यन्तः, प्रतिपृथिवि वृत्तादिसङ्ख्याप्रपञ्चस्तु देवेन्द्रकन र केन्द्रकाद्वोद्धव्यो, ग्रन्थगौरवभयाच्च नेहोच्यत इति ॥ १७८ ॥ अथ नरकावासानामायामविष्कम्भोचत्वान्याह -
तिसहस्सुच्चा सध्वे, संखमसंखिज्जवित्थडायामा ।
पणा लक्ख सीमंतओ अ लक्खं अपइठाणो ॥ १७९ ॥
व्याख्या—सर्वे–पृथ्वीसप्तकसम्बन्धिनो नरकावासास्त्रिसहस्रोचाः, पीठे शुषिरे स्तूपिकायां च एकैकसहस्रभावात् । यदुक्तम् - " हिट्ठा घणो सहस्सं, उपि संकोयओ सहस्सं तु । मज्झे सहस्सझुसिरा, तिन्निसहस्सूसिआ निरया ॥ १ ॥” विस्ताराद- दैर्ध्याच्च संख्यातयोजना असङ्ख्यातयोजना वा, प्रथमप्रतरवत्र्त्ती सीमन्तकः पुनरायामविष्कम्भाभ्यां योजनानां पञ्चचत्वारिंशलक्षाः, एवमप्रतिष्ठानः सप्तमपृथिवीन र केन्द्रको लक्षं, तथा एतत्परिक्षेपि
Jain Education International
For Private & Personal Use Only
वृत्तिः.
॥ ८४ ॥
www.jainelibrary.org