________________
RASA***ICAS
श्रेष्टि-देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के
श्रीमद्देवभद्रसूरिकृताश्रीसंग्रहणीवृत्तिः
ॐ नमः सर्वज्ञाय
अत्यद्भुतं योगिभिरप्यगम्यं, विधूतनिःशेषतमोवितानम् । अचिन्त्यमाहात्म्यमजं निरञ्जनं, ज्योतिर्जयत्येकमनन्तमव्ययम् ॥१॥ यस्यामृतैर्वचोभिर्जीवत्सद्यापि भव्यलोकोऽयम् । स जयत्यागमजलधिर्जिनभद्रगणिक्षमाश्रमणः॥२॥3 प्रसन्नगम्भीरपदाहितकमा, मिताक्षरा वर्जितपौनरुक्त्या। यैर्निर्मिता सङ्ग्रहणीयमद्भुता, नमो नमस्तत्पदपङ्कजेभ्यः॥३॥ इह तावच्छास्त्रादौ सङ्क्षिप्तरुचिनाऽपि प्रायः शिष्टसमयानुवृत्तये विघ्नोपशान्तये च परममङ्गलालयोऽभीष्टदेवतास्तवः । कर्तव्यः, तथा-श्रुत्वाऽभिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्त्तन्ते, तजिज्ञासादिनोदिताः ॥१॥
lain Education in
For Private Personal Use Only
A
w
.jainelibrary.org