SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ POSSUISSES नुसारी सबलवाहनः क्षयमगात् , स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में' सखा-मित्रं, स्वजनः-पितृव्यादिः, संग्रन्थः-स्वजनस्याऽपि स्वजनः पितृव्यपुत्रशालादिः, संस्तुतो-भूयो भूयो दर्शनेन परिचितोऽथवा पूर्वसंस्तुतो-मातृपित्रादिभिरभिहितः, पश्चात्संस्तुतः-शालकादिः, स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तंशोभनं प्रचुरं वा, उपकरणं-हस्त्यश्वरथासनमञ्चकादि, परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजनं-मोदकादि, आच्छादनं-पट्टयुगादि, तच्च मे भविष्यति नष्टं वा, "इच्चत्थ"मिति, इत्येवमर्थ गृद्धो लोकस्तेष्वेव मातृपित्रादिरागादिनिमित्तस्थानेष्वामरणं, प्रमत्तो-ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत् तिष्ठेदिति, उक्तं च-'पुत्रा में भ्राता मे, स्वजनो मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्द, पशुमिव मृत्युर्जनं हरति ॥१॥ पुत्रकलत्रपरिग्रह-ममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः, परिग्रहादुःखमाप्नोति ॥२॥' x x x तदेवं कषायेन्द्रियप्रमत्तो मातृपिवाद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह च-"अहो” इत्यादि, अहश्च सम्पूर्ण रात्रिं च, च शब्दात्पक्षं मासं च निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा-'कई या वच्चइ सत्थो ?, किं भंडं ? कत्थ केत्तिया भूमी ? । को कयविक्कयकालो ?, निविसई किं कहिं केण ? ॥१॥ इत्यादि, स च परितप्य-18 मानः किम्भूतो भवतीत्याह-काले त्यादि, कालः कर्तव्यावसरस्तद्विपर्यासोऽकालः, सम्यगुत्थातुं-अभ्युद्यन्तुं शीलमस्येति | समुत्थायीति पदार्थो, वाक्यार्थस्तु काले-कर्तव्यावसरे अकालेन-तद्विपर्यासेन समुत्तिष्ठतेऽभ्युद्यतमनुष्ठानं करोति, तच्छी-1 -१ कदा व्रजति सार्थः, किं भाण्डं कुत्र कियती भूमिः । कः क्रयविक्रयकालो, निर्विशति (निर्गच्छति ) किं क केन ? ॥१॥ Jan Education International For Private &Personal use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy