________________
वैराग्यशतकम्
॥१९॥
व्याख्या-रे जीव! त्वया 'अनन्तकृत्वो'ऽनन्तवारान् , 'नरकेषु' रत्नप्रभादिषु सप्तसु 'बहुविधा' अनेकप्रकारा 'अनुपमा' 181 गुणविन| अनन्यसदृशा असातेन-दुःखेन बहुला- व्याप्ता वेदना- असातावेदनीयकर्मजनिताः पीडाः प्राप्ता, यत उक्तं-"नेरइया यीयाणं भंते ! कइविहं वेयणं पच्चणुभवमाणा विहरंति ?, गोयमा ! दसविहं, तं जहा-सीयं १ उसिणं २ खुहं ३ पिवासं ४ कंडूयं | व्याख्या। ५ परज्झं ६ जरं ७ दाहं ८ भयं ९ सोगं १०" [एतद्दीका]-"तत्र शीतोष्णे प्रतीते, क्षुत्पुन रकाणां सदा स्थायिनी, ते हि | क्षुद्वेदनादह्यमानाः सकलजगद्धृतादिपुद्गलाहारेऽपि न तृप्यन्ति, पिपासा तु नित्यं कण्ठोष्ठतालुजिह्वादिशोषविधायिनी सकलजलधिजलपानेऽपि नो शाम्यति, कण्डूः क्षुरकादिभिरप्यनुच्छेद्या, "परज्झं” पारवश्यं, ज्वरो यावजीवमत्रत्यादनन्तगुणो, दाहभयशोका अप्यत्रत्येभ्योऽनन्तगुणा इति" ॥ ६१॥
देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंतखुत्तो समणुभूयं ॥ ३२॥ ___ व्याख्या-रे जीव ! त्वया 'देवत्वे' देवभवप्राप्तौ, तथा 'मनुजत्वे' मनुष्यभवप्राप्तौ, 'परे' स्वस्मादन्ये-देवा मनुजाश्च,1G | तेषां 'अभियोगत्वं' परतन्त्रत्वं, 'उपगतेन' प्राप्तेन सता पारवश्याद् 'अनन्तकृत्वो'ऽनन्तवारान् ‘बहुविधं' अनेकप्रकारं 'भीषणं' भयानक 'दुःखं' असातं 'समनुभूतं' वेदितम् ॥ ६२॥ तिरियगई अणुपत्तो, भीममहावेयणा अणेगविहा । जम्मणमरणऽरघहे, अणंतखुत्तो परिन्भमिओ ॥ ६३॥ व्याख्या-हे जीव ! त्वं तिर्यग्गतिमनुप्राप्तोऽनेकविधा 'भीममहावेदना' रौद्रमहापीडा, विषहमाणः, सन्निति गम्यते,
॥१९॥
Jain Education
R
ental
For Private & Personal use only
R
ainelibrary.org