SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । ॥ १८ ॥ संसार्यसुमान् 'असकृद्' अनेकश 'उच्चैर्गोत्रे' मानसत्कारार्हे, उत्पन्न इति शेषः, तथाऽसकृ'न्नीचैर्गोत्रे' सर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यश्वास्त इति, स चाऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावर्त्तानिति xxx तदेवमुच्चावचेषु गोत्रेष्वसकृदुत्पद्यमानेनाऽसुमता xxx न मानो विधेयो नाऽपि दीनतेति, तयोश्चोच्चावचयोगत्रयोर्वन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह - " णो हीणे णो अतिरित्ते" यावन्त्युच्चैर्गोत्रे ऽनुभाववन्धाध्यवसायस्थानकण्डकानि, नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयोभूयः स्पर्शितानि तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाऽध्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति, x x x यतश्वोच्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, वलरूपलाभादिमदस्थानानां चाऽसमञ्जसतामवगम्य किं कर्तव्यमित्याह - " णोऽपीहए”, 'अपिः' सम्भावने, स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमम पि 'नो ईहेताऽपि, नाऽभिलषेदपि, अथवा नो स्पृहयेन्नाऽवकाङ्क्षदिति, तत्र यद्युच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह - " इति संखाय इत्यादि, इतिरुपप्रदर्शने, इत्येतत्पूर्वी कनीत्योच्चावच स्थानोत्पादादिकं 'परिसंख्याय' ज्ञात्वा 'को गोत्रवादी भवेद् ?" यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं [ तथा ] नाऽपरस्येत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि -मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्त पूर्वाणीति, तथोच्चै गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित्संसारस्वभावपरिच्छेदीत्यर्थः, किञ्च "कंसि वा एगे गिज्झे" अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नु चैर्गोत्रादिकेऽनवस्थिते स्थाने रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्य - आसेवां विदितकर्मपरिणामो विदध्याद्, Jain Educational For Private & Personal Use Only गुणविन यीया व्याख्या । ॥ १८ ॥ ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy