________________
अराः' क्षणेन विनशनशीलाः, तेऽपि कियन्तं कालं संयुज्य पुनरायुःक्षये वियुज्यन्तेऽतस्तेषु मा मोहं गच्छेरिति भावः ॥३८॥
निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि।
डझंतमप्पाणमुविक्खयामि, जं धम्मरहिओ दिअहे गमामि ॥ ३९॥ व्याख्या-'निशाया' रात्रे विरामे' अवसाने, जागरितः सन्नेवं परिभावयामि' चिन्तयामि, किं तद् ?, यदहं धर्मेण रहितो दिवसान् गमयामि' अतिवाहयामि, तद् 'गेहे' गृहे, 'प्रदीप्ते' अग्निज्वालावलीढे, किं ? 'स्वपिमि' शये-निद्रां करोमीति यावत् , तथा 'दह्यन्तं' अग्निज्वालयाऽवलेह्यमानं 'आत्मानं' शरीरं 'उपेक्षे अवगणयामि, दह्यते चेत्तदा दह्यतामित्युपेक्षां विदधामीत्यर्थः, एतावता धर्मरहितदिनान्यतिवाहयता मया कर्माग्निना दह्यमानःस्वात्मा उपेक्षित इति ज्ञापितम् ॥३९॥
जा जा वच्चइ रयणी, न सा पडिनियत्तई। अधम्म कुणमाणस्स, अहला जति राइओ॥४॥ व्याख्या-या या ब्रजति 'रजनी' रात्रिःन सा 'प्रतिनिवर्तते' पुनरागच्छति, ताश्चाऽधर्म कुर्वतो, जन्तोरिति गम्यते, 'अफला' धर्मरूपफलरहिता रात्रयो यान्ति ॥४०॥ जस्सऽत्थि मचुणा सक्खं, जस्स चऽथि पलायणं । जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ॥४१॥ व्याख्या-यस्य 'अस्ति' विद्यते, मृत्युना सह 'सख्यं' मैत्री, यस्य चाऽस्ति 'पलायनं' नाशनं, मृत्योरिति प्रक्रमस्तथा
TOCOCCACANCIENCE
वैरा० ३
Jan Educati
onal
For Private &Personal use Only
Mjainelibrary.org