SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पायं ग्लपितसकल जनताकार्यं कृतान्तप्रायमशिवं महारक्ष इवोत्थितमभूत् । तच्च भाद्रपद कृष्ण सप्तमी निशीथसमये श्रीसर्वार्थसिद्धिमहा विमानतोऽतिविक्लवजन तोपकारायेव श्रीविश्वसेनराजप्रणयिन्याः श्रीअचिरादेव्याः कुक्षिशुक्तिपुटमचिन्त्यधान्नि भगवत्यवतीर्णमात्रेपि तथा प्रपलायितं यथाऽनुद्भूतमिवासीत् । ततोऽस्य प्रभावात् सर्वत्र शान्तिरभूदिति मातृपितृभ्यां भगवतः शान्तीत्यभिधा चक्रे । अतो यद्यपि भगवन्तः सर्वेऽपि विजयहेतवः श्रेयोहेतवश्च तथापि विशेषतो विजयः शान्तिश्चैताभ्यामेव चक्रे, इत्येतयोरेव यौगपद्येन पाक्षिकादिपर्वणि स्तोत्रमभिधीयते । नचैतदनागमिकम्, यतः श्रीमहावीरशिष्य श्रीनन्दिषेण महर्षिणाऽपि विशेषतः पाक्षिकादिपर्वणि पाठ्यं श्रीअजितशान्त्योः स्तवनं कृतमस्ति इति तदनुक्रममनुवर्तमानः श्रीजिनवल्लभसूरिरपि तथैव चकार । अत्र प्रथमं वृत्तं शार्दूलच्छन्दसा, ततो वृत्तपञ्चदशकं मालिनीछन्दसा, अन्तिमं वृत्तं द्विपदीछन्दसा विरचितमस्तीति भावः ॥ इति श्रीधर्म तिलक मुनिविरचिता श्रीउल्लासिक्कमस्तोत्रवृत्तिः समाप्ता ॥ [ वृत्तिकृत्प्रशस्तिः ] शश्वत्तापरजोजडत्वशमिका सच्छायतादायिका, धूताचारुचरित्र मुख्यकगुणैः प्राप्ता च काञ्चिच्छ्रियम् । येषां कीर्तिपटीजगत्रयजनैः सम्प्राप्य नक्तं दिवं व्यापार्येत भजेत नो मलिनतां शीर्येत वा न क्वचित् ॥ १ ॥ १ उपलभ्यते कचिच्छ्रीमन्नेमिजिनशिष्य इत्यपि, यथा- "श्रीनेमिवचनाद्यात्रा -ऽऽगतः सर्वरुजापहम् । नन्दिषेणगणेशोऽत्रा-जितशान्तिस्तवं व्यधात् ॥ १ ॥” इति विविधतीर्थंकल्पान्तर्गते शत्रु अयकल्पे, एवमेव शत्रुञ्जयमहाकल्पेऽपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy