SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सटीकवैराग्यशतकादि ॥१॥ पूज्याश्वेमे खजनुषा कदा कं देशं पुरं कुलं चालश्चक्रुः ?, कदा कुत्र च दीक्षिता बभूवुः ?, कस्य विनेयवराः ?, कदा खपादवि-दग्रन्थपञ्चकन्यासेनेमं कुवलयं पावयाञ्चक्रुः १, कदा चैनां वृत्तिं विरचितवन्तः ?, के के चान्ये ग्रन्था निर्मिता एभिः पूज्यवरैरिति जिज्ञासायां 'कदा स्योपक्रमः स्वजन्मना कं देशादिकमलचक्रुः ?, कदा कुत्र च दीक्षिता अभूव'नियेतज्ज्ञापयितुमसमर्थोऽहं विदुषां पुरः, तत्साधनाभावात् । परं संवन्नेन्दसमुंद्रदर्शशिमिते [१६४९] वैक्रमे लाभपुर(लाहोर )पत्तने श्रीजिनसिंहसूरीणां सूरिपदेन सममेषामपि वाचनाचार्यपदं प्रददेx गच्छाधिपैयुगप्रधानश्रीमजिनचन्द्रसूरिवरैरिति सुज्ञातमेवेतिहासविदाम् । कस्यैते विनेयाः ?, कश्चैषां सत्तासमयः? कश्चास्या वृत्तेर्विरचनकाल: ? इत्याद्यारेकाकदम्बकस्त्वस्या एव वृत्तेः प्रान्तोल्लिखितेन "श्रीगुरुखरतरगच्छे, श्रीमजिनचन्द्रसूरिराजानाम् । राज्ये विराजमाने, मुंनिवार्द्धिरसेन्दुमित[१६४७]वर्षे ॥ १ ॥ श्रीक्षेमराजाभिधपाठकानां, शिष्या विशिष्य क्षमया क्षमाभाः । क्षमाधराक्षोभ्यविनेयवृन्दाः, श्रीवाचकाः कीर्तिमहीजकन्दाः॥२॥ प्रमोदमाणिक्यसुनामधेया-स्तेषां च सन्त्यद्भुतभागधेयाः । शास्त्रार्थसर्वस्वकलापविज्ञा, जयन्ति सुज्ञा जयसोमसंज्ञाः ॥ ३ ॥ तेषां शिष्येणेयं, गुणविनयाख्येन निर्ममे व्याख्या । काऽपि यथादर्शमणु-स्त्वरितं वैराग्यशतकस्य ॥४॥" इत्येतेन पद्यचतुष्केणैव निरस्ता भवति, यतः स्फुटीभवत्यनेन यदुत-शुद्धधर्मोपदेशामृतपानप्रीणिताकब्बरभूपतिभ्य आषाढीयाष्टाहिकायां x “तेषु च गणिजयसोमा, रत्ननिधानाच पाठका विहिताः । गुणविनयसमयसुन्दर-गणी कृतौ वाचनाचार्यों ॥ १॥" कर्मचन्द्रवंशावली । Jain Education a l For Private & Personal use only Sainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy