________________
सिरिसिरि
॥ ४३ ॥
Jain Education Inter
जीवित नाऊण निच्छयं तिलय मंगलं काउं । पभणइ तुह सेयत्थं, नवपयझाणं करिस्तमहं ॥ मणा भइ अपि नाह ! निच्चपि निच्चलमणेणं । कल्लाणकारणाई झाइस्सं ते नव पयाई ॥३५९॥ ते मयणावयणामएण सित्तो नमित्तु माइपए । संभासिऊण दइयं सिरिपालो गहिकरवालो | निम्मलवारुणमंडलमंडिअससिचारपा एसुपवे से। तच्चरणपढमकमणं कमेण चल्लेइ गेहाओ जुम्मं ॥ ३६९ ॥ सो गामागरपुरपत्तनेसु कोऊहलाई विक्खंतो । निव्भयचित्तो पंचाणणुव्व गिरिपरिसरं पत्तो ॥३६२॥ अथ जनन्यपि तस्य-श्रीपालस्य विदेशगमने निश्वयं ज्ञात्वा तिलकमङ्गलं कृत्वा प्रभणति वक्ति, हे पुत्र ! तव - योse अहं नवपदध्यानं करिष्ये || ३५८ || मदनसुन्दरी भणति - हे नाथ ! अहमपि नित्यमेव निश्चलमनसा - एकाग्रचित्तेन ते - तव कल्याणस्य कारणानि नव पदानि ध्यास्यामि - स्मरिष्यामि ॥ ३५६ ॥ तेन मदनाया वचनामृतेन सिक्तः श्रीपालो मातृपादौ नत्वादयितां - स्त्री मदनसुन्दरीं सम्भाष्य गृहीतः करवालः - तरवारिर्येन स गृहीतकरवालः सन् || ३६० || निर्मलं | यद्वा मण्डल - जलमण्डलं तेन मण्डितो यः शशिचारप्राणः - चन्द्रनाडीसञ्चारी वायुस्तस्य सुष्ठु - शोभने प्रवेशे सति ॐ श्रर्थाद्वामस्वररूपचन्द्रनाड्यां वहमानायां तस्य चरणस्य - वामपादस्य यत्प्रथमं क्रमणं - उत्पाट्य स्थापनं तेन क्रमेण गृहाच्चलति ।। ३६१ ।। स श्रीपालो ग्रामाकरपुरपत्तनेषु कौतूहलानि - कौतुकानि प्रेचमाणः पञ्चाननः सिंह इव निर्भयं चित्तं यस्य स निर्भयचित्तः सन् गिरेः - पर्वतस्य परिसरं - पार्श्वप्रदेशं प्राप्तः ।। ३६२ ।।
For Private & Personal Use Only
वालकहा ।
॥ ४३ ॥
© www.jainelibrary.org