________________
जायं च साहवायं, मयणाए सत्तसीलकलियाए। जिणसासणप्पभावो, सयले नयरंमि वित्थरिओ॥ अन्नदिणे सिरिपालो, हयगयरहसुहडपरियरसमेओ। चडिओ रयवाडीए पञ्चक्खो सुरकुमारुत्व ॥३३५॥
लोए अरुप्पमोए, पिक्खते चडवि चंदसालासुं। गामिबएण केणवि, नागरिओ पुच्छिओ कोवि ॥३३६॥ Eभो भो कहेसु को एस जाइ लीलाइ रायतणउव्व ?। नागरिओ भणइ अहो, नरवरजामाउओ एसो॥३३७॥ तं सोऊण कुमारो सहसा सरताडिओव्व विच्छाओ । जाओ वलिऊण समागओ अगेहमि सविसाओ॥
तदा सत्वशीलाभ्या-धैर्यब्रह्मचर्याभ्यां कलिताया-युक्ताया मदनसुन्दर्याः साधुवादश्च सञ्जातः-साधुर्महासतीय| मिति वाक्यं प्रादुरभूदित्यर्थः, तथा जिनशासनस्य प्रभावः सकलेऽपि नगरे विस्तृतो-विस्तारं प्राप्तः ॥ ३३४ ॥ अन्यस्मिन् दिने श्रीपालो हयगजरथसुभटानां यः परिकरः-परिवारस्तेन समेतः-संयुक्तः सन् प्रत्यक्षः सुरकुमार इव राजवाटिकायां चटितः-राजवाटिकायां क्रीडार्थ चलित इत्यर्थः ॥ ३३५ ।। तदा सह प्रमोदेन-हर्षेण वर्त्तते सप्रमोदस्तस्मिन् लोके च चन्द्रशालासु-गृहोपरितनभूमिषु चटित्वा कुमारं प्रेक्षमाणे सति केनापि ग्रामीणेन नरेण कोऽपि नागरिको-नगरवासी पृष्ट:-॥३३६॥ भो भो त्वं कथय लीलया राजतनयो-राजपुत्र इव क एष याति , एवं ग्रामीणेन पृष्टे सति नागरिको भणति-अहो एष नरवरस्य-राज्ञो जामातास्ति ।। ३३७ ॥ तनागरिकवचः श्रुत्वा कुमारः सहसा-अकस्मात् शरेण-बाणेन ताडित इव विच्छायो जातः, च पुनः सविषादः सन् तत एव वलित्वा गृहं समागतः ।। ३३८ ।।
Jain Education in
For Private
Personal Use Only
AI www.jainelibrary.org