________________
वालकहा।
सिरिसिरिता ताय! जिणुत्तं तत्तमुत्तमं मुणसु जेण नाएणं । नजइ कम्मजियाणं, बलाबलं बंधमुक्खं च ॥३३०॥
तत्तो धम्म पडिवज्जिऊण राया भणेइ संतुट्ठो। सीहरहरायतणओ जं जामाया मए लद्धो ॥३३१॥ तं पत्थरमित्तकए, हत्थंमि पसारियंमि सहसत्ति । चडिओ अचिंतिओ च्चिय नूनं चिंतामणी एसो॥ जामाश्यं च धूयं, आरोविय गयवरंमि नरनाहो। महया महेण गिहमाणिऊण सम्माणइ धणेहिं॥
॥४०॥
तत्-तस्मात्कारणात् हे तात ! जिनोक्नं तत्त्वं उत्तम मुण-जानीहि येन ज्ञातेन कर्माणि च जीवाश्च कर्मजीवास्तेषां कर्मजीवानां बलं च अबलं च बलाबलं ज्ञायते, 'कत्थवि जीवो बलियो, कत्थवि कम्माई हुंति बलियाई' इत्यादि, च पुनः बंधश्च मोक्षश्चानयोः समाहारो बन्धमोक्षं ज्ञायते ॥३३०॥ ततः-तदनन्तरं राजा धर्म प्रतिपद्य-अङ्गीकृत्य सन्तुष्टः सन् भणति-यन्मया सिंहरथराजस्य तनयः-पुत्रो जामाता लब्धः ॥ ३३१ ॥ तत् प्रस्तरमात्रकृते-पाषाणमात्रग्रहणनिमित्तं हस्ते प्रसारिते सति सहसा-अकस्मात् नूनं-निश्चितं अचिन्तित एव-अवितर्कित एव इति एतत्वरूप एष चिन्तामणिहस्ते चटितः ॥३३२।। ततो नरनाथो-राजा जामातरं-श्रीपालं च पुनः पुत्रीं-मदनसुन्दरी गजवरे-प्रधानहस्तिनि आरोप्य महता महेनउत्सवेन स्वगृहमानीय धनैः-विविधद्रव्यैः सन्मानयति ॥ ३३३ ॥
Jain Education
a
l
For Private Personal use only
www.jainelibrary.org