________________
अप्पेइ वरावासं, पूरइ धणधन्नकंचणाईयं । तत्थऽच्छइ सिरिवालो, दोगुंदुगदेवलीलाए ॥ ३१७ ॥ अन्नदिणे तस्सावासपाससेरीइ निग्गओ राया। पिक्खइ गवक्खसंठिअकुमरं मयणाइ संजुत्तं ॥३१॥
तो सहसा नरनाहो, मयणं दट्टण चिंतए एवं। मयणाइ मयणवसगाइ मह कुलं मइलियं नूणं ॥३१९॥ 3 इक्कं मए अजुत्तं, कोवंधेणं त्या कयं बीअं । कामंधाइ श्मीए विहियं ही ही अजुत्तयरं ॥ ३२० ॥
वरवासं-अवस्थानार्थं प्रधानमन्दिरं अर्पयति-ददाति, तथा धनधान्यकाञ्चनादिकं पूरयति, श्रीपालस्तत्रावासे दोगुंदुकानां-त्रायस्त्रिंशकानां देवानां लीलयावतिष्ठते ॥ ३१७ ॥ अन्यस्मिन् दिने तस्य-श्रीपालस्य य आवासस्तस्य पार्श्वे या सेरी-मार्गविशेषस्तस्यां राजा निर्गतः, तत्र च मदनसुन्दर्या संयुक्तं गवाक्षे सं-सम्यक् प्रकारेण स्थितं कुमार-श्रीपालं प्रेक्षतेपश्यति स्म, सेरीति देशीशब्दोऽयम् ॥ ३१८ ।। ततः-तदनन्तरं नरनाथो-राजा प्रजापालः सहसा-अकस्मात् मदनसुन्दरी दृष्ट्वा एवं-वक्ष्यमाणप्रकारेण चिन्तयति, मदनस्य-कामस्य वशं गच्छतीति मदनवशगा तया मदनसुन्दयों नूनं-निश्चितं मम कुलं मलिनीकृतम् ॥३१॥ तदा-तस्मिन्नवसरे एकं तु मया कोपान्धेन सता अयुक्तं कृतं यत्कुष्ठिने स्वपुत्री दत्ता, द्वितीयं पुनः अनया कामान्धया सत्या हीहीति खेदेऽयुक्ततरम्-अतिशयेनायुक्तं विहितं-कृतं, यत् स्वपतिं त्यक्त्वाऽन्यपतिः स्वीकृतः ॥ ३२०॥
Jain Education Inter
For Private & Personel Use Only
tiww.jainelibrary.org