________________
धिद्धी अहो अकजं, निवडउ वजं च मज्न कुच्छीए। जत्युप्पन्नावि विय-क्खणावि ही एरिसं कण२७४।। तं सोऊणं मयणा, जा पिक्खइ रुप्पसुंदरीजणणिं। रुयमाणिं ता नाओ तीए जणणीअभिप्पाओ।।२७५॥ चिअवंदणं समग्गं, काऊणं मयणसुंदरी जणणिं। करवंदणेण वंदिअ, विअसिअवयणा भणइ एव।२७६) । अम्मो ! हरिसटाणे, कीस विसाओ विहिज्जए एवं? ।जं एसो नीरोगो, जाओ जामाउओ तुम्हं ॥२७७॥ | अहो इत्याश्चर्ये एतत्कार्य धिगू धिग् अस्तु, च पुनः मम कुक्षी-उदरे वजं निपततु, यत्र-यस्मिन्कुक्षौ उत्पन्नाऽपि पुनविचक्षणाऽपि हीति खेदे ईदृशमकार्य करोति ॥ २७४ ॥ तद्वचनं श्रुत्वा मदनसुन्दरी यावत् रूप्यसुन्दरीजननी निजमातरं रुदन्ती प्रेक्षते-विलोकयति तावत्तया-मदनसुन्दया जनन्या अभिप्रायो-मनोगतो वितर्को ज्ञातः ॥२७॥ ततो मदनसुन्दरी समयां-सम्पूर्णा चैत्यवन्दनां कृत्वा जननी-स्वमातरं कराभ्यां-हस्ताभ्यां यद्वन्दनं-नमस्कारस्तेन वन्दित्वा-नमस्कृत्य विकसितं-विकस्वरं वदनं-मुखं यस्याः सा एवंविधा सती एवं-वक्ष्यमाणं भणति ||२७६॥ तथाहि-हे अम्ब-हे मातः हर्षस्थाने एवं विषादो-विषण्णता कथं विधीयते-कथं क्रियते ?, यद्-यस्मात्कारणात् एषः युष्माकं जामाता नीरोगो-रोगरहितो जातोऽस्ति अतोऽत्र हों युक्त इति भावः ॥२७७।।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org