________________
Jain Education In
तेरा मुणिदेणुत्तं, भद्दे ! सो तुज्झ नंदगो तत्थ । तेणं चिय कुट्टियपेडएण दट्टू संगहिओ ॥ २५६ ॥ विहि उंबरराणुत्ति, नियपहू लद्धलोयसम्माणो । संपइ मालवनरवइधूयापाणपिओ जाओ २५७ राय सुयावयणेणं, गुरुवइटुं स सिद्धवरचकं । आराहिऊण सम्मं संजाओ करण्यसमकाओ ॥२५८॥ सो य साहम्मिएहिं, पूरियविहवो सुधम्मकम्मपरो । अच्छइ उज्जेणीए, घरणीइ समन्नि सुहि २५९ |
तदा तेन मुनीन्द्रेणोक्तं, हे भद्रे ! स तव नन्दनः - पुत्रः तत्रोज्जायिन्यां तेनैव कुष्टिकपेटकेन - कुष्ठिनां वृन्देन दृष्टवा सङ्गृहीतः, ततः समादाय स्वपार्थे रक्षित इत्यर्थः ॥ २५६ ॥ ततस्तैः स त्वत्पुत्र: उम्बरराज इति नाम्ना निजप्रभुःस्वस्वामी विहितः कृतः, कीदृशः सः १ - लब्धः - प्राप्तो लोके सन्मानः सत्कारो येन स तथोक्तः, सम्प्रति - अधुना त्वत्पुत्रो मालवनरपतेः - मालवदेशराजस्य या पुत्री मदनसुन्दरी तस्याः प्राणप्रियो भर्त्ता जातोऽस्ति || २५७|| स तव पुत्रो राजसुतायानृपपुत्र्या मदनसुन्दर वचनेन गुरूपदिष्टं श्रीसिद्धवरचक्रं सम्यक् आराध्य कनकेन - सुवर्णेन समः - स्तुल्यः कायः शरीरो यस्य स तथोक्तः स्वर्णवर्णदेहः सञ्जातोऽस्ति ॥ २५८ ॥ स च त्वत्पुत्रो गृहिण्या - निजस्त्रिया समन्वितो - युक्तः सन् अधुना उज्जयिन्यामवतिष्ठते, कीदृशः सः १ - साधर्मिकैः पूरितो विभवः - स्वर्णादिद्रव्यं यस्य स तथोक्तः, पुनः कीदृशः १-मुष्ठुशोभनानि यानि धर्मकर्माणि पराणि तानि प्रधानानि यस्य स पुनः सुखं जातमस्येति सुखितः ।। २५६ ॥
onal
For Private & Personal Use Only
@ www.jainelibrary.org