SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ NO वालकहा। सिरिसिरिसाणंदा सा आसीसदाणपुव्वं सुयं सुण्डं च । अभिनंदिऊण पभणइ, तश्याऽहं वच्छ ! तं मुत्तुं ॥२५२॥ कोसंबीए विज, सोऊणं जाव तत्थ वच्चामि। ता तत्थ जिणाययणे, दिट्ठो एगो मुणवरिंदो ॥२५३॥ खंतो दंतो संतो, उवउत्तो गुत्तिमुत्तिसंजुत्तो। करुणारसप्पहाणो, अवितहनाणो गुणनिहाणो॥२५४।। धम्म वागरमाणो, पत्थावे नमिय सो मए पुट्ठो । भयवं ! किं मह पुत्तो, कयावि होही निरुयगत्तो?२५५ ।। ____सा कुमारमाता सानन्दा-सहर्षा सती आशीर्दानपूर्वकं सुतं च पुत्रवधूं च स्नुषां अभिनन्द्य प्रशस्य प्रभणति-स्ववृत्तान्तं कथयति, तथाहि-हे वत्स ! तदा-तस्मिन् कालेऽहं त्वां अत्र मुक्त्वा-॥ २५२ ।। कौशांब्यां नगर्या सर्वरोगनिवारक वैद्य श्रुत्वा यावत्तत्र व्रजामि-गच्छामि तावत्तत्र नगया जिनायतने-जिनगृहे एको मुनिवरेन्द्रो दृष्टः । कीदृशो मुनीन्द्रः इत्याह ॥२५३॥क्षान्त:-क्षमायुक्तो दान्तो-जितेन्द्रियः शान्तः-शान्तरसयुक्तः उपयुक्तः-उपयोगवान् गुप्तिः-मनोवाक्कायनिरोधः, मुक्ति:-निर्लोभता ताभ्यां संयुतः पुनः करुणारसप्रधानः यस्य स तथोक्तः, पुनरवितथं-सत्यं ज्ञानं यस्य स तथोक्तः, अत एव गुणानां निधानं-निधिः ॥ २५४ ॥ एवंविधः स मुनीन्द्रो धर्म व्यागृणन्-कथयन् प्रस्तावे अवसरे मया नत्वाप्रणम्य पृष्टः, हे भगवन् ! किमिति प्रश्ने मम पुत्रः कदापि निष्क्रान्तं रुजाया इति निरुजं निरुजं गात्रं-शरीरं यस्य स रोगरहितकायो भविष्यति ? ॥ २५५ ॥ 醇燕這與西勢必將 Jan Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy