________________
सिरि सिरि
॥ २९ ॥
Jain Education
बीअदिणे सविसेसं, संजाओ तस्स रोगउवसामो । एवं दिवसे दिवसे, रोगखए वढए भावो ॥ २३५ ॥ अह नवमे दिवसंमी, पूअं काऊण वित्थरविहीए । पंचामएण ण्हवणं, करेइ सिरिसिद्धचक्करस ॥ २३६ ॥ हवणूसवंमि विहिए, तेणं संतीजलेण सव्वंगं । संसितो सो कुमरो, जाओ सहसति दिव्वतणू ॥ २३७ ॥ सव्वेसिं संजायं, अच्छरिअं तस्स दंसणे जाव । ताव गुरू भणइ अहो, एयस्स किमेयमच्छरिअं ? ॥ २३८ ॥ इमिणा जलेण सव्वे, दोसा गहभृअसाइणीपमुहा । नासंति तक्खणेणं, भविआणं सुद्धभावाणं ॥ २३९ ॥
द्वितीयदिने तस्य - श्रीपाल कुमारस्य सह विशेषेणेति - सविशेषं रोगस्योपशमः सञ्जातः, एवममुना प्रकारेण दिवसे दिवसेदिने दिने रोगस्य क्षये सति भावो वर्द्धते – शुभपरिणामो वृद्धिं यातीत्यर्थः ।। २३५ ।। अथ नवमे दिवसे विस्तरविधिना श्रीजिन* पूजां कृत्वा पंचामृतेन प्रागुक्तस्वरूपेण श्रीसिद्धचक्रस्य - यन्त्रराजस्य स्नपनं करोति ॥ २३६ ॥ श्रीसिद्धचक्रस्य सपनोत्सवेॐ स्नात्रमहोत्सवे विहिते - कृते सति तेन शान्तिजलेन सर्वस्मिन् अंगे संसिक्तः स कुमारः सहसा इत्यकस्मादेव दिव्या अद्भुता
मनोज्ञा तनुः – कायो यस्य स दिव्यतनुर्जात इतिनिपातोऽवधारणे ।। २३७ ।। तादृग्रूपस्य तस्य - श्रीपालस्य दर्शने सति यावत् * सर्वेषां लोकानामाश्चर्य सञ्जातं तावद्गुरुर्भणति, अहो लोका ! एतस्य किमेतदाश्रयें ? न किमपीत्यर्थः ॥ २३८ ॥ अनेन शांति| जलेन शुद्धभावानां निर्मलमनः परिणामानां भव्यानां गृहभूतशाकिनीप्रमुखाः सर्वेऽपि दोषास्तत्क्षणेन - तत्कालमेव नश्यन्तिप्रणाशमुपयान्ति ।। २३९ ॥
For Private & Personal Use Only
बालकृहा ।
॥ २९ ॥
v.jainelibrary.org