________________
न यतं करेइ माया, नेव पिया नेव बंधुवग्गो अ । जं वच्छल्लं साहम्मिआण सुस्सावओ कुणइ ॥ २३०॥ तत्थ ठिओ सो कुमरो, मयणावयणेण गुरूवएसेणं । सिक्खेइ सिद्धचक्कप्पसिद्धपूआविहिं सम्मं ॥ २३१ ॥ अह अन्नदिणे आसोअ-सेअअट्टमितिहीइ सुमुहुत्ते । मयणासहिओ कुमरो, आरंभइ सिद्धचक्कतवं ॥२३२ ॥ पढमं तणुमणमाई, काऊण जिणालए जिणच्चं च । सिरिसिद्धचक्कपूर्य, अटुपयारं कुणइ विहिणा ॥ २३३ ॥ एवं कयविहिपूओ, पच्चक्खाणं करेइ आयामं । आणंदपुलइअंगो, जाओ सो पढमदिवसे वि ॥ २३४ ॥
न च तद्वात्सल्यं माता करोति, नैव पिता-जनकः, नैव बन्धुवर्गश्च-भ्रातृसमुदायः करोति, यत्साधर्मिकाणां वात्सल्यं के सुश्रावकः करोति ॥ २३०॥ तत्र-तस्मिन्स्थाने स्थितः स कुमारो मदनमुन्दा वचनेन तथा गुरूपदेशेन श्रीसिद्धचक्रस्य प्रसिद्ध पूजाविधिं सम्यक् शिक्षति-अभ्यस्यति ॥२३१॥ अथानन्तरं-अन्यस्मिन् दिने आश्विनश्वेताष्टमीतिथौ-आश्विनसुद्यष्टम्यां शोभने मुहूर्ते मदनसुन्दरीसहितः श्रीपालकुमारः सिद्धचक्रतप आरभते-तत्प्रारम्भं करोतीत्यर्थः ॥२३२॥ प्रथमं तनोः-शरीरस्य । मनसचान्तःकरणस्य शुद्धि-निर्मलतां कृत्वा च पुनः जिनालये-जिनगृहे जिनार्चा-जिनप्रतिमापूजां कृत्वाऽष्टप्रकारी श्रीसिद्धच-18 क्रस्य पूजा विधिना करोति ।। २३३ ॥ एवमुक्तप्रकारेण कृता विधिना पूजा येन स एवंविधः श्रीपाल आचामाम्लं प्रत्याख्यानं करोति, स श्रीपालकुमारः प्रथमदिवसेपि आनन्देन पुलकितरोमोद्गमयुतं अङ्गं यस्य स एवंविधो जातः॥२३४॥
For Private Personal Use Only
jainelibrary.org