________________
एयमि कीरमाणे, नवपयझाणं मणमि कायव्वं । पुन्ने य तवोकम्मे, उज्जमणंपि विहेयव्वं ॥ २२० ॥ एअं च तवोकम्म, संमं जो कुणइ सुद्धभावेणं । सयलसुरासुरनरवर-रिडीउ न दुल्लहा तस्स ॥ २२१ ॥ एयंमि कए न हु दुटकुटखयजरभगंदराईआ। पहवंति महारोगा, पुव्वुप्पन्नावि नासंति ॥ २२२ ॥ दासत्तं पेसत्तं, विकलत्तं दोहगत्तमंधत्तं । देहकुलजुंगियत्तं, न होइ एयरस करणेणं ॥ २२३ ॥ नारीणवि दोहग्गं, विसकन्नत्तं कुरंडरंडतं । वंझत्तं मयवच्छ--तणं च न हवेइ कइयावि ॥ २२४ ॥ | एतस्मिन्तपसि क्रियमाणे मनसि नवपदध्यानं कर्त्तव्यं, नवपदानां जापश्चात्र जघन्यतस्त्रयोदशसहस्राणीति वृद्धाः, च पुनस्तपःकर्मणि पूर्णे सति उद्यापनमपि विधातव्यं-कर्त्तव्यं हु इति निश्चयेन ॥२२०॥ यः प्राणी एतच्च सम्यक् समीचीनं तपःकर्मतपोऽनुष्ठानं शुद्धभावेन करोति तस्य-प्राणिनः सकलसुरासुरनरवराणां ऋद्धयः-सम्पदो न दुल्लभाः-सुलभा एवेत्यर्थः ॥ २२१ ॥ एतस्मिन्तपःकर्मणि कृते सति दुष्टकुष्ठ १क्षय २ ज्वर ३ भगन्दरा ४ द्या महारोगा नैव प्रभवन्ति-नैवोत्पद्यन्ते पूर्वोत्पन्ना रोगा अपि नश्यन्ति।।२२२||एतस्य तपसः करणेन कर्तुर्दासत्वं न भवति, तथा प्रेष्यत्वं-कर्मकरत्वं न भवति, एवं विकलत्वंकलाहीनत्वं दुर्भगत्वं-लोकेऽनिष्टत्वं, अंधत्वं-गताक्षत्वं, देहजुंगितत्वं-शरीरक्षितत्वं कुलजुङ्गितत्वं-कुलदृषितत्वं एतानि न भवन्ति ॥ ३२३ ॥ स्त्रीणामपि एते दोषाः कदापि न भवन्ति, के एते इत्याह-दौर्भाग्यं-भाद्यनिष्टत्वं तथा विषकन्यात्वं एवं कुरण्डात्वंकुलक्षणनारीत्वं रण्डात्वं-भर्तृविहीनत्वं वन्ध्यात्वं-निरपत्यत्वं मृतवत्सात्वं च एतानि (न) भवन्ति ॥ २२४ ॥
in Educatan
For Private & Personel Use Only
Jw.jainelibrary.org