________________
सिरिसिरि
वालकहा।
एएण कारणेणं, पसन्नचित्तेण सुद्धसीलेण । आराहणिजमेअं, सम्मं तवकम्मविहिपुव्वं ॥ २१६ ॥ आसोअसेअअट्टमि-दिणाओ आरंभिऊणमेयस्स । अट्टविहपूयपुव्वं, आयामे कुणह अट्ट दिणे ॥ २१७ ॥ नवमंमि दिणे पंचा-मएण ण्हवणं इमस्स काऊणं । पूयं च वित्थरेणं, आयंबिलमेव कायव्वं ॥ २१८ ॥ एवं चित्तेवि तहा, पुणो पुणोऽटाहियाण नवगेणं । एगासीए आयं-बिलाण एवं हवइ पुन्नं ॥ २१९ ॥
- एतेन कारणेन प्रसन्न-निर्मलं चित्तं यस्य स तेन तथा शुद्धं शीलं यस्य स तेन पुरुषेण एतत् सिद्धचक्र | सम्यक् तपःकर्मविधिपूर्व आराधनीयं, तपःकर्म-आचामाम्लरूपं विधिः-पूजनध्यानादिसम्बन्धी तत्पूर्वकमित्यर्थः ॥ २१६ ॥ आश्विनश्वेताष्टमीदिनात्-आश्विनसुद्यष्टमीदिवसात् आरभ्य एतस्य-श्रीसिद्धचक्रस्य अष्टविधपूजापूर्व-अष्टप्रकारां पूजां | विधाय इत्यर्थः, अष्ट दिनानि यावदहो भव्या आचामाम्लानि तपांसि यूयं कुरुत, यद्यपि मूलविधिनाष्टमीदिनादारभ्यैतत्तपः प्रोक्तमस्ति, परं साम्प्रतं तु पूर्वाचार्याचरणातः सप्तमीदिनात् क्रियमाणमस्तीति ज्ञेयम् ।। २१७ ॥ नवमे दिनेऽस्य-श्रीसिद्धचक्रस्य पञ्चामृतेन-दधिदुग्धघृतजलशर्करास्वरूपेण स्नपनं कृत्वा च पुनः विस्तरेण पूजां कृत्वा आचामाम्लमेव कर्त्तव्यम् ॥ २१८ ॥ एवं चैत्रेऽपि कर्त्तव्यं तथा-तेन प्रकारेण पुनः पुनरष्टाहिकानां नवकेन आचामाम्लानामेकाशीत्याचामाम्लैरित्यर्थः, एतत्तपःकर्म पूर्ण भवति ॥ २१९ ॥
॥२७॥
en Education
For Private Personal Use Only