SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तत्तो तिजयपसिद्ध, अट्टमहासिद्धिदायगं सुद्धं । सिरिसिद्धचक्कमेअं, आराहहं परमभत्तीए ॥ २११ ॥ खंतो दंतो संतो, एयस्साराहगो नरो होइ । जो पुण विवरीयगुणो, एयस्स विराहगो सो उ ॥ २१२ ॥ तम्हा एयस्सारा-हगेण एगंतसंतचित्तेणं । निम्मलसीलगुणेणं, मुणिणा गिहिणा वि होयध्वं ॥ २१३ ॥ जो होइ दुट्टचित्तो, एयस्साराहगोवि होऊण । तस्स न सिज्झइ एयं, किंतु अवायं कुणइ नूणं ॥ २१४ ॥ जो पुण एयस्सारा-हगस्स उवरिंमि सुद्धचित्तस्स । चिंतइ किंपि विरूवं, तं नृणं होइ तस्सेव ॥ २१५ ॥ । ततस्तस्मात्कारणात् भो भो भव्याः! त्रिजगति-लोकत्रये प्रसिद्धम्, अणिमाद्यष्टमहासिद्धिदायकं शुद्धं-निर्मलं एतत् | श्रीसिद्धचक्रं परमभक्त्या यूयं आराधयत-सेवध्वम् ।।२११।। अर्थतस्य यः आराधको भवति तत्वरूपमाह-क्षान्त:-क्षमायुक्तः दान्तोजितेन्द्रियः शान्तो-जितमानसविकारः ईदृशो नरो-मनुष्य एतस्य-सिद्धचक्रस्य आराधको भवति, यः पुनः विपरीता गुणा यस्मिन् स विपरीतगुणः कामक्रोधादियुक्त इत्यर्थः, स तु पुमान् एतस्य विराधको भवति ॥२१२॥ तसात्कारणात् एतस्याराधकेन मुनिनासाधुना गृहेण-गृहस्थेनापि च ईदृशेन भवितव्यं, कीदृशेन ? इत्येतदाह-एकान्तेन-निश्चयेन शान्तं-विकाररहितं चित्तं यस्य स तेन, पुनर्निर्मलः शीलगुणो यस्य स तेन ॥२१३॥ यः पुमान् एतस्याराधकोऽपि भूत्वा दुष्टं चित्तं यस्य स दुष्टचित्तो भवति तस्य पुंस एतत् | श्रीसिद्धचक्रं न सिद्धथति, किन्तु नूनं-निश्चितं अपायं-कष्टं करोति ॥२१४॥ शुद्धं चित्तं यस्य स शुद्धचित्तस्तस्य एतस्याराधकस्य पुंस उपरि कोऽपि दुष्टः किमपि विरूप-अशुभं चिन्तयति, तद्विरूपं नूनं-निश्चितं तस्यैव विरूपचिन्तकस्यैव भवति ॥२१५॥ Jain Education in For Private & Personel Use Only Elainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy