________________
वालकहा।
सिरिसिरि-एयं च सिद्धचक्कं, कहिअं विज्जाणुवायपरमत्थं । नाएण जेण सहसा सिज्झंति महंतसिडिओ॥२०७॥
एयं च विमलधवलं, जो झायइ सुक्कजाणजोएण । तवसंजमेण जुत्तो, सो पावइ निज्जरं विउलं ॥ २०८॥ अक्खयसुक्खो मुक्खो, जस्स पसाएण लब्भए तस्स । झाणेणं अन्नाओ, सिद्धीओ हंति किं चुन्जं?॥२०९॥ एयं च परमतत्तं, परमरहस्सं च परममंतं च । परमत्थं परमपयं, पन्नत्तं परमपुरिसेहिं ॥ २१॥ पीठे स्थितमित्यर्थः, तत्र दशसु दिक्पालेषु अष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत् ॐ इन्द्राय नम इत्यादि,ऊर्ध्वतु ओ ब्रह्मणेनमः अधः ॐ नागाय नमः, निजदक्षिणनागकोणे ॐ क्षेत्रपालाय नमः इति लिखेत् , अस्य लिखने सम्यग्विधिश्चास्याम्नायविन्मुखाद्यथालिखितचक्राद्वाऽवसेयः॥२०५॥२०६॥ एतच्च सिद्धचक्रं विद्यानुवादो-दशमं पूर्व तस्य परमार्थरूपं-रहस्यभूतमित्यर्थः, येन ज्ञातेन सहसा-सद्यो महत्यः सिद्धयो-अणिमाद्याः सिद्धयन्ति ।। २०७॥ एतच्च विमलं-निर्मलं अत एव धवलं-उज्ज्वलं श्रीसिद्धचक्रं | यः पुमान् शुक्लध्यानयोगेन-उज्ज्वलध्यानव्यापारेण ध्यायति स विपुलां-विस्तीर्णा निर्जरां प्राप्नोति बहुकर्मक्षयं करोतीत्यर्थः, कीदृशः सः-तपःसंयमाभ्यां युक्तः॥२०८ ॥ अक्षयं सुखं यस्मिन् स ईदृशो मोक्षो यस्य श्रीसिद्धचक्रस्य प्रसादेन प्राणिभिर्लभ्यते तस्य ध्यानेन अन्याः सिद्धयो भवन्ति, तत्र किञ्चोधं-किमाश्चर्यमित्यर्थः ॥ २०९ ॥ एतच्च परमतत्त्वं-उत्कृष्टं तत्त्वं च पुनः परमं रहस्य-गोप्यं च पुनः परमो मन्त्रः पुनः परमार्थः पुनः परमपदं परमपुरुषर्भगवद्भिः प्रज्ञप्तं-प्ररूपितम् ।। २१०॥
For Private Personal use only
rww.jainelibrary.org