________________
वालकहा।
॥२५॥
सिरिसिरिअरिहं सिद्धगणीणं, गुरुपरमादिठ्ठणंतसुगुरूणं । दुरणंताण गुरूण य, सपणवबीयाओं ताओ य ॥ २०२॥
रेहादुगकयकलसा--गारामिअमंडलंव तं सरह । चउदिसि विदिसि कमेणं, जयाइजंभाइकयसेवं ॥ २०३ ॥ सिरिविमलसामिपमुहाहिवायगसयलदेवदेवीणं । सुहगुरुमुहाओं जाणिअ, ताण पयाणं कुणह झाणं ॥२०॥
अथाष्टगुरुपादुका एवाह-अर्हता पादुकाः १ सिद्धानां पादुकाः २ गणीनां-आचार्याणां ३ गुरूणां-पाठकानां ४ परमगुरूणां ५ अदृष्टगुरूणां ६ अनन्तगुरूणां ७ दुरणंताणंति-अनंतानंतगुरूणां च८ इत्येवमष्टानामपि ताः-पादुकाः सप्रणवबीजाः-प्रवणबीजाभ्यां सहिताः ॐ हीयुता इत्यर्थः, ॐ ही अर्हत्पादुकाभ्यो नमः इत्थं सर्वा अपि लिखेत् ॥ २०२ ॥ रेखाद्विकेन यन्त्रोर्श्वभागाद्वामदक्षिणनिर्गतान्योऽन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत्कलशाकारं अमृतमण्डलं तद्वत् सरत-कलशाकारं लिखेदित्यर्थः, किंविशिष्टं तत् ?-चतुर्दिक्षु विदिक्षु च क्रमेण जयादिकाभिः चतसृभिः जया १ विजया २ जयन्त्य ३ ऽपराजिताभिः ४ तथा जम्भादिभिजम्भा १ पम्भा २ मोहा ३ गन्धाभिः ४ कृता सेवा यस्य तत् , तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिका आग्नेय्यादिपु विदिक्षु लिखेत् ॥ २०३ ॥ श्रीविमलखामीति नाम्ना सौधर्मदेवलोकवासी श्रीसिद्धचक्रस्याधिष्ठायकः तत्प्रमुखा येऽधिष्ठायका सकलाः-समस्ता देवा देव्यश्चक्रेश्वर्याद्याः तासां ध्यानं सुगुरुमुखात् ज्ञात्वा 'ताण'त्ति तत्सम्बन्धिनां 'पयाणं'ति मन्त्रपदानां ध्यानं यूयं कुरुत, एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत्, ॐ हीं विमलस्वामिने नमः इत्यादि लिखेदित्यर्थः ॥२०॥
For Private sPersonal use Only