SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तइअवलएऽवि अडदिसि, दिप्पंतअणाहएहिं अंतरिए । पायाहिणेण तिहिपंतिआहिं झाएह लद्धिपए ॥ १९९ ॥ ते पणवबीअअरिहं, नमोजिणाणंति एवमाईआ । अडयालीसं णेआ, संमं सुगुरूवएसेणं ॥ २० ॥ तं तिगुणेणं माया-बीएणं सुद्धसेयवण्णेणं । परिवेढिऊण परिहीइ, तस्स गुरुपायए नमह ॥ २०१॥ म तृतीयवलयेऽपि अष्टसु दिक्षु अष्टावनाहतान् लिखेत् ततो द्वयोद्वयोरन्तरे द्वे वे लब्धिपदे एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि । प्रथमपङ्क्तौ एवं षोडशैव द्वितीयपङ्क्तौ एवमेव तृतीयपङ्क्तौ इत्थं दीप्यमानैरष्टभिरनाहतैरन्तरितानि-व्यवहितानि पादक्षिण्येन तिमृभिः पस्तिभिः-श्रेणिभिरष्टचत्वारिंशल्लब्धिपदानि यूयं ध्यायत ॥ १९९ ॥ ते इति प्राकृतत्वान्नपुंसकस्य पुंस्त्वं, तानि लब्धि|पदानि प्रवण-ॐकारो बीज-व्हीङ्कारोऽहमिति सिद्धिबीजं एतत्पूर्वकं नमो जिणाणमितिपदं ॐ हीं अहं नमोजिणाणं इत्येवमादीनि अष्टचत्वारिंशत्सङ्ख्यानि सम्यक् सुगुरोरुपदेसेन ज्ञेयानि, एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि, इह त्वाराधनविधि विना पुस्तकलिखने दोष इति न लिखितानि ॥२००॥ तत्पीठादि लब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-हीङ्कारेण परिवेष्टय परितः-समन्ताद्वेष्टयित्वा तस्य परिधौ गुरुपादुका:-गुरुपादन्यासान् यूयं नमत । अत्रायं भाव:- सर्वयन्त्रस्योर्ध्व हीङ्कार विलिख्य तस्य ईकारात्सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिालयित्वा चतुर्थरेखार्द्धप्रान्ते को इत्यक्षरं लिखेत् ,तस्य च परिधौ अष्टा गुरुपादुकाः, पादुकाशब्दो यद्यपि नामकोशे उपानद्वाचक उक्तः, तथापि रूढ्या पादन्यासार्थोऽपि बोध्यः, बहुस्थानेषु तथा दर्शनात् ॥ २०१॥ सि. सि.५ Join Education For Private 3 Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy