SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि- | झायह अडदलवलए, सपणवमायाइएसुवाहंते । सिद्धाइए दिसासुं, विदिसासुं दंसणाईए ॥ १९७ ॥ बीअवलयंमि अडदिसि, दलेसु साणाहए सरह वग्गे । अंतरदलेसु अट्ठसु, झायह परमिट्ठिपढमपए ॥ १९८ ॥ ॥ २४ ॥ **** Jain Educati अथ पीठं लिखित्वा तत्पार्श्वे वृत्तमण्डलं लिखेत्, तदुपरि अष्टदलकमलाकारं वलयं लिखेत्, तत्राष्टदलवलये चतुर्षु दिक्पत्रेषु प्रणवमायादिकान् स्वाहांतान् सिद्धादिकान् चतुर्थीबहुवचनांतान् ध्यायतः, प्रणव - ओङ्कारो माया -- हीङ्कारस्तौ आदी येषां ते तान् तथा खाहाऽन्ते येषां ते तानू, लिखनविधिः यथा- ओं ह्रीं सिद्धेभ्यः स्वाहा पूर्वस्यां १, ॐ ह्रीं आचार्येभ्यः स्वाहा दक्षिणस्यां २, ॐ ह्रीं उपाध्यायेभ्यः स्वाहा पश्चिमायां ३, ॐ ह्रीं सर्वसाधुभ्यः स्वाहा उत्तरदिग्दले ४, तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि ध्यायत, तत्तल्लिखनविधिस्त्वयं - ॐ ह्रीं दर्शनाय स्वाहा आग्नेयकोणे १, ओं ह्रीं ज्ञानाय स्वाहा नैर्ऋत्यां २, ॐ ह्रीं चारित्राय स्वाहा वायव्ये ३, ॐ ह्रीं तपसे स्वाहा ईशानकोणे ४, अनेन क्रमेण लिखेत्, एवमष्टदलं प्रथमवलयम् ॥१९७॥ प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यस्येत्, तत्र द्वितीयवलये अष्टसु एकान्तरितदिग्दलेषु सानाहतान् - अनाहतबीज सहितान् अष्टौ वर्गान् अ, क,च, ट, त, प, य, श, रूपान् क्रमेण लिखित्वा यूयं स्मरत, तत्र प्रथमवर्गे षोडश वर्णाः कवर्गादिषु पञ्चसु प्रत्येक | पञ्च पञ्च वर्णाः, अन्तिमवर्गद्वये प्रत्येकं चत्वारो वर्णाः, ततोऽष्टसु वर्गाणामन्तरदलेषु परमेष्ठिपदानि ॐ नमो अरिहंताणमित्येवंरूपाणि ध्यायेत, अष्टस्वपि अन्तरदलेषु ॐ नमो अरिहंताणं इत्येवं लिखेदित्यर्थः । एवं द्वितीयवलयम् ॥ १९८ ॥ ational For Private & Personal Use Only 1 बालकहा ॥ २४ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy