SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ एएहिं नवपएहिं, सिई सिरिसिद्धचक्कमेअं जं । तस्सुद्धारो एसो, पुवायरिएहिं निद्दिट्ठो ॥ १९५ ॥ गयणमकलिआयंतं, उड्डाहसरं सनायबिन्दुकलं । सपणवबीआणाहय--मंतसरं सरह पीढंमि ॥ १९६ ॥ एतैर्नवभिः पदैः सिद्ध-निष्पन्नं यदेतत् श्रीसिद्धचक्र, तस्य-सिद्धचक्रस्य एष उद्धारः पूर्वाचायनिर्दिष्टः--कथितः॥१९५॥ अथ ग्रन्थकार एकादशगाथाभिः सिद्धचक्रोद्धारविधिमाह-गयणेत्यादि, अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया, तत्र गगनशब्देन ह इत्यक्षरमुच्यते, 'पीढमि'त्ति मूलपीठे-यन्त्रस्य सर्वमध्ये ह इत्यक्षरं यूयं स्मरत, इह च स्मरणमेवाधिकृतं स्मरणस्याशक्यत्वे पदस्थध्यानसाधनार्थ मनोज्ञद्रव्यैर्वहिकापट्टादौ लिखनमपि पूर्वाचार्यैराम्नातं, एवमग्रेऽप्यूह्य, तत्रादौ हकाराक्षरं लेखनीयमिति प्रकृतं, तत्कीदृशं ? इत्याह-अस्य अकाराक्षरस्य कलिका व्याकरणसंज्ञामयी वक्राइत्यक्षररूपा तयाऽवन्तं- सहितं आदौ कलिकया युक्तं ततोह इति स्यात् पुनः तद्गगनबीजं कीदृशं ?.-'उड्डाहसरं उर्ध्वाधः सह रेण-रकारेण वर्त्तते इति सरं हकारस्योलमधश्च रकारो| दीयते, ततोऽहँ इति जातं, पुनः कीदृशं तत् ?-सनादबिन्दुकलं नादो चन्द्राकारोऽक्षरस्योपरि अनुनासिकः बिन्दुकलाच पूर्णेनुस्वारः ततो नादश्च बिन्दुकला च ताभ्यां सहितं ततोऽर्ह इति जातं, पुनः कीदृशं ?-'सपणवबीयाणाहयं' प्रणव-ओङ्कारः बीजहीङ्कारः अनाहतं च कुण्डलाकारं ततश्च द्वन्द्वस्तैः सहितं, अत्राम्नायः-अर्ह इति बीजं ओङ्कारोदरे न्यस्येत्, एतच्च बीजद्वयं हीङ्कारोदरे न्यस्येत् ततश्च हीङ्कारस्येकारखरात् रेखां पश्चाद्वालयित्वा द्विःकुण्डलाकारेणानाहतेन तद्वीजत्रयमपि वेष्टयेत्, पुनः कीदृशं ?--अन्त्यस्वरं-अन्त्ये खराः-अ आ इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ अं अः एते पोडश यस्य तत् , पूर्वोक्तस्य सर्वतः स्वरान् न्यस्येदित्यर्थः, इत्येतावत्कर्णिकायां ध्येयम् ।। १९६ ॥ www.jainelibrary.org JainE For Private & Personal Use Only International
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy