SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ इच्चाइदेसणंते, गुरुणो पुच्छंति परिचियं मयणं । वच्छे कोऽयं धन्नो, वरलक्खणलक्खिअ सुपुन्नो ? ॥ १८५ ॥ मयणाइ रुअंतीए, कहिओ सव्वोवि निअयवृत्तंतो । विन्नत्तं च न अन्नं, भयवं ! मह किंपि अत्थि दुहं ॥ ९८६ ॥ एयं चिअ मह दुक्खं, जं मिच्छादिट्टिणो इमे लोआ । निंदंति जिणह धम्मं, सिवधम्मं चेव संसंति ॥ १८७ ॥ ता पहु कुणह पसायं, किंपि उवायं कहेह मह पइणो । जेणेस दुट्ठवाही, जाइ खयं लोअवायं च ॥ १८८ ॥ |पभणेइ गुरू भद्दे ! साहूणं न कप्पए हु सावजं । कहिउं किंपि तिगिच्छं, विज्जं मतं च तंतं च ॥ १८९ ॥ इत्यादिदेशनाया अन्ते गुरवो निजपरिचितां मदनसुन्दरीं पृच्छन्ति, हे वत्से - हे पुत्र ! अयं पुरोवर्त्तीि धन्यः - प्रशस्यः पुनः वरैः - प्रधानैः लक्षणैर्लक्षितस्तथा शोभनं पुण्यं यस्य स ईदृशः कः पुरुषोऽस्ति ? ॥ १८५ ॥ तदा मदनसुन्दर्या रुदत्या - रोदनं कुर्वत्या सर्वोऽपि निजकवृत्तान्तः कथितः च पुनः इत्थं विज्ञप्तं - हे भगवन्--हे पूज्य ! मम अन्यत् - अपरं किमपि दुःखं नास्ति ।। १८६ ।। | किन्तु एतदेव महद्दुःखं यन्मिथ्यादृष्टय इमे लोकाः जिनधर्म्यं निन्दन्ति, शिवधर्म्म -- मिथ्याधर्ममेव च प्रशंसन्ति ।। १८७ ।। तस्मात् हे प्रभो ! - हे स्वामिन् ! यूयं प्रसादं कुरुत, कमपि उपायं कथयत येनोपायेन मम पत्युः एष दुष्टव्याधिः - कुष्ठरोगः क्षयं याति च पुनः लोकवादो- लोकापवादः क्षयं याति ॥ १८८ ॥ ततो गुरुः प्रभणति वदति, हे भद्रे ! साधूनां किमपि सावद्यंसदोषं वस्तु कथयितुं न कल्पते, किं ? तदित्याह - चिकित्सां - वैद्यकं, पुनर्विद्यां च पुनर्मन्त्रं च पुनस्तन्त्रं, एतानि सावधानि साधुमिर्न कथनीयानि इत्यर्थः ॥ १८९ ॥ Jain Educationational For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy