SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ २२ ॥ Jain Education भणिअं च तीइ सामिअ, फिट्टिस्सइ एस तुम्ह तणुरोगो। जेणेसो संजोगो, जाओ जिणवरकयपसाओ || १८१ ॥ तत्तो मयणा पइणा - सहिआ मुनिचंदगुरुसमीवंमि । पत्ता पमुइअचित्ता, भत्तीए नमइ तस्स पए ॥ ९८२ ॥ गुरुणो य तया करुणापरित्तचित्ता कहंति भवियाणं । गंभीरसजलजलहर - सरेण धम्मस्स फलमेवं ॥ १८३ ॥ सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाउ। रिद्धिं च विद्धिं च पहुत्तकित्ती, पुन्नप्पसाएण लहंति सत्ता १८४ च पुनः तया - मदनसुन्दर्या भणितं हे स्वामिन् ! एष - युष्माकं तनुरोगो - देहव्याधिः 'फिट्टिस्सइ' त्ति अपयास्यति, येन कारणेन एष संयोगो जिनवरेण - ऋषभस्वामिना कृतः प्रसादो यस्मिन् स ईदृशो जातोऽस्ति, तेन ज्ञायते इत्यर्थः ॥ १८१ ।। ततस्तदनन्तरं मदनसुन्दरी पत्या - स्वभत्र सहिता मुनिचन्द्राख्यगुरूणां समीपे प्राप्ता, तदा प्रमुदितं हृष्टं चित्तं यस्याः सा तथाविधा सती भक्त्या तस्य-गुरोः पादौ चरणौ नमति ॥ १८२ ॥ तदा तस्मिन्काले करुणया - कृपया परीतं व्याप्तं चित्तं येषां ते तथाविधा गुरवश्च भव्यजीवानां पुरस्तात् सजलो- जलभृतो यो जलधरो - मेघस्तद्वद्गम्भीरो यः स्वरस्तेन एवं वक्ष्यमाणप्रकारेण धर्मस्य फलं कथयन्ति ॥ १८३ ॥ कथमित्याह - सुष्ठु - शोभनं मानुषत्वं तत्रापि सुकुलं - उत्तमं गोत्रं, तत्र पुनः शोभनं रूपमाकृतिः पञ्चेन्द्रियपटुतेत्यर्थः, तत्रापि सौभाग्यं सर्वजनवल्लभत्वं, तथा आरोग्यं नीरोगता पुनः अतुच्छं प्रचुरं आयुजीवितं तथा ऋद्धिसम्पदं च पुनः वृद्धिं पुत्रादिपरिवाररूपां तथा प्रभुत्वं - स्वामित्वं कीर्तिर्यशः, प्रभुत्वं च कीर्त्तिश्च प्रभुत्वकीर्त्ती ते, एतानि वस्तूनि | सत्त्वाः - प्राणिनः पुण्यप्रसादेन - धर्म्मप्रभावाल्लभन्ते - प्राप्नुवंति ।। १८४ ।। For Private & Personal Use Only बालकहा ! ॥ २२ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy