________________
इअ रिसहजिणेसर भुवणदिणेसर, तिजयविजयसिरिपाल पहो!।
मयणाहिअ सामिअ सिवगइगामिअ, मणह मणोरह पूरिमहो ॥ १७८ ॥ एवं समाहिलीणा, मयणा जा थुणइ ताव जिणकंठा। करठिअफलेण सहिआ, उच्छलिआ कुसुमवरमाला ॥ १७९ ॥ मयणावयणाओ उंबरेण सहसत्ति तं फलंगहिअं । मयणाइ सयं माला, गहिया आणंदिअमणाए॥१८॥
इत्युक्तप्रकारेण हे ऋषभजिनेश्वर ! हे भुवनदिनेश्वर ! भुवने-लोके दिनेश्वरः-सूर्य इव भुवन० तत्सं० पुनस्त्रिजगतो-जगत्रयस्य या विजयश्रीः-विजयलक्ष्मीस्तां पालयतीति त्रि० श्रीपालस्तत्सं० हे त्रिजग हे प्रभो ! पुनः हे मदनाहितः मदन:कामस्तस्याहितः-शत्रुः हे स्वामिन् ! हे शिवगतिगामिन् मम मनसो मनोरथान्-अभिलाषान् पूरय इति तात्पर्यार्थः, पुनरयं तिजयविजयेत्यादि-त्रिजगति विजयो यस्य स त्रिजगद्विजयः, श्रीपालस्य प्रभुः श्रीपालप्रभुस्तत्सं०तथा "मयणाहिय"त्ति मदनसु न्दर्या हितो-हितकारी तत्संबो० इति ॥ १७८ ॥ एवममुना प्रकारेण समाधौ-चित्तैकाग्र्ये लीना-मना मदनसुन्दरी यावत् स्तौति तावत् जिनस्य-भगवतः कण्ठात् करस्थितबीजपूरकादिफलेन सहिता कुसुमानां-पुष्पाणां वरा-प्रधाना माला उच्छलिता ॥ १७९ ॥ तदा मदनसुन्दरीवचनात् उम्बरराजेन सहसा-सद्यस्तत्फलं गृहीतं इति पादपूरणे तथा आनन्दितं मनो यस्याः सा आनन्दितमनास्तया तादृश्या मदनसुन्दर्या स्वयमात्मना माला गृहीता ॥ १८॥
Jain Educatio
Lowww.jainelibrary.org
n
For Private & Personal Use Only
al