________________
सिरिसिरि
वालकहा।
॥२१॥
सायरसमसमयामयनिवास, वासवगुरुगोयरगुणविकास । कासुजलसंजमसीललील, लीलाइ विहिअमोहावहील ॥ १७६ ॥ हीलापरजंतुसु अकयसाव, सावयजणजणिअआणदभाव ।
भावलयअलंकिअ रिसहनाह, नाहत्तणु करि हरि दुक्खदाह ॥ १७७ ॥ पुनः सागरसमः-समुद्रतुल्यः समता एव अमृतं-पीयूपं तस्य निवासः सागरसमसमतामृतनिवासस्तत्सम्बोधने हे सागरसमसमतामृतनिवास पुनः वासवः-इन्द्रस्तस्य गुरुलोकोक्त्या बृहस्पतिस्तस्य गोचरो-विषयभूतो गुणानां विकासो-विस्तारो यस्य सः तत्सम्बोधने हे वासव०पुनः कासस्तृणविशेषस्तद्वत् उज्ज्वला संयमशीलयोः-चारित्रस्वभावयोर्लीला-क्रीडा यस्य स तत्सम्बोधने हे का! पुनः लीलया-लीलामात्रेण विहिता-कृता मोहस्य-मोहनीयकर्मणोऽवहीला--अनादरो येन स तत्सं० हे. ! ॥ १७६ ॥ पुनः हीला--हीलनमेव परा-प्रधानं येषां ते हीलापरा एवंविधा ये जन्तवो-जीवास्तेषु न कृतः शाप-आक्रोशो येन स तत्सं० हे. पुनः श्रावकजनानां जनित-उत्पादित आनन्दभाव-आनन्दोदयो येन स श्रावक०स्तत्सम्बोधने हे श्रावक पुनः भा-प्रभा तस्या वलय-मण्डलं तेन अलंकृतः-शोभितः तत्सं० हे. पूर्वोक्तविशेषणविशिष्ट हे ऋषभनाथ ! नाथत्वं कुरु, मम योगक्षेमकृद्भवेत्यर्थः, तथा-मम दुःखदाहं हर-दूरीकुरु इत्यर्थः ॥ १७७ ॥
For Private
Jain Education
jainelibrary.org
Personal Use Only