________________
तो तीए मयणाए, नयणंसुयनीरकलुसवयणाए । पइपाएस निवेसिअ-सिराइ भणिअं इमं वयणं ॥ १६६॥ सामिअ! सव्वं मह आ-इसेसु किंचेरिसं पुणो वयणं । नो भणियव्वं जं दुहवेइ मह माणसं एयं ॥१६॥ अन्नं च-पढमं महिलाजम्म, केरिसयं तंपि होइ जइ लोए। सीलविहूणं नूणं, ता जाणह कंजिअंकुहिअं॥१६८॥ सीलं चिअ महिलाणं, विभूसणं सीलमेव सव्वस्सं । सीलं जीवियसरिसं, सीलाउ न सुंदरं किंपि ॥१६९ ॥
।
ततस्तदनन्तरं तया-मदनसुन्द- इदं-वक्ष्यमाणं वचनं भणितं-उक्तं,कीदृश्या तया?-नयनयोः-चक्षुषोर्यत अश्रुनीरं-अश्रु । जलं तेन कलुष--गडुलं वदनं-मुखं यस्याः सा तथा तया। पुनः कीदृश्या ?-पत्युः-भर्तुः पादयोः-चरणयोर्निवेशितं-स्थापितं शिरोमस्तकं यया सा तया । किं भणितमित्याह-॥ १६६ ॥ हे स्वामिन् ! मह्यं अन्यत् सर्व कार्य आदिश अनुजानीहि, किन्तु ईदृशं वचनं पुनर्नो भणितव्यं-न कथनीयं, कथमित्याह-यद्यस्मात्कारणात् एतद्वचनं मम मानसं दुःखापयति-यतः दुखितं करोतीत्यर्थः ॥१६७॥ अन्यच्च-अन्यदपि सा भणति, प्रथम महिलाजन्म-स्त्रीजन्म कीदृशं? अशुद्धमेवेति भावः । तदपि स्त्रीजन्म यदि लोके शीलविहीनं-ब्रह्मचर्यरहितं भवति तत्तर्हि नूनं-निश्चितं कुथित काञ्जिक-आरनालं यूयं जानीत, तत्सदृशं अतीवाशुद्धमिति भावः | ॥१६८ ॥ यतो महिलानां-स्त्रीणां शीलमेव विभूषणम्-आभरणमस्ति, तथा-शीलमेव सर्वस्व-सर्वसारमस्ति, पुनः स्त्रीणां शीलं जीवितसदृशं-जीवितव्यतुल्यं वर्त्तते, तासां शीलात् अधिकं सुन्दरं-रम्यं किमपि नास्ति ॥ १६९॥
JainEdisa
For Private Personel Use Only
www.jainelibrary.org