________________
सिरिसिरि
वालकहा।
॥१९॥
सुरसुन्दरिसम्माणं, मयणाइ विडंबणं जणो दटुं । सिवसासणप्पसंसं, जिणसासणनिंदणं कुणइ ॥ १६२ ॥ इओ य-निअपेडयस्स मज्झे, रयणीए उंबरेण सा मयणा। भणिआ भद्दे ! निसुणसु,इमं अजुत्तं कयं रन्ना ॥१६३॥ तहवि न किंपि विणटुं, अजवि तं गच्छ कमवि नररयणं । जेणं होइ न विहलं, एयं तुह रूवनिम्माणं ॥१६॥ इअ पेडयस्स मझे, तुज्झवि चिठंतिआइ नो कुसलं । पायं कुसंगजणिअं, मज्झवि जायं इमं कुटुं ॥ १६५ ॥
तस्मिन्नवसरे सुरसुन्दाः सन्मानं-सत्कारं दृष्टा मदनसुन्दर्यास्तु विटम्बनां दृष्ट्वा जनो-बहिष्टिर्लोकः शिवशासनस्यशिवमतस्य प्रशंसां करोति, जिनशासनस्य निन्दनं-निन्दां करोति ॥१६२ ॥ इतश्च--इतःपरमित्यर्थः, निजपेटकस्य-निजसमुदायस्य मध्ये रजन्यां-रात्रौ उम्बरेण-उम्बरराजेन सा मदनसुन्दरी भणिता-उक्ता, मदनसुन्दय इदमुक्तमित्यर्थः, किमित्याह-हे भद्रे !! हे शोभने ! त्वं शृणु राज्ञा-त्वत्पित्रा इदं अयुक्तं कृतं यन्मह्यं विनष्टांगाय त्वं प्रदत्तेति भावः ॥ १६३ ॥ तथापि किमपि विनष्टं नास्ति, अद्यापि त्वं कमपि नररत्नं-पुरुषश्रेष्ठं प्रति गच्छ-अन्यं नीरुपुरुषं स्वीकुरु इत्यर्थः,येन एतत्तव रूपस्य निर्माणं-रचनं विफलं-निष्फलं न भवेत् ॥ १६४ ॥ इहास्मिन् पेटकस्य-समुदायस्य मध्ये तिष्ठन्त्यास्तवापि कुशलं-शुभं नास्ति, कथमित्याह-(प्रायो बाहुल्येन ) कुसंगेन जनितं-उत्पादितं ममापि इदं-कुष्ठं जातं तन्मा कदाचित् तवापि भवेदिति भावः ॥ १६५॥
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org