________________
कारिअसुरसुंदरिसिणगारं, सिंगारिअअरिदमणकुमारं ।
हथलेवइ मंडलविहिचंगं, करमोयणकरिदाणसुरंग ॥ १५८ ॥ एवं विहिअविवाहो, अरिदमणो लद्दहयगयसणाहो । सुरसुंदरीसमेओ, जा निग्गच्छइ पुरवरीओ ॥ १५९ ॥ *ता भणइ सयललोओ, अहोऽणुरूवो इमाण संजोगो । धन्ना एसा सुरसुं-दरी य जीए वरो एसो ॥ १६० ॥ केवि पसंसंति निवं, केवि वरं केवि सुंदारं कन्नं । केवि तीऍ उज्झायं, केवि पसंसंति सिवधम्मं ॥ १६१ ॥
तथा कारितः सुरसुन्दाः कन्यायाः शृङ्गारो यत्र तत् ,पुनः शृङ्गारितोरिदमनकुमारो यत्र तत् ,पुनः पाणिग्रहणसमये ब्राह्मणेन क्रियमाणो यो मण्डलविधिोकप्रसिद्धस्तेन चङ्गं रम्यं, तथा करमोचने-हस्तमोचनसमये राज्ञा कृतं हस्त्यश्वादिदानं तेन सुरङ्गम् ॥१५८॥ एवमुक्तप्रकारेण विहितः-कृतो विवाहो यस्य स तथा, लब्धाः-प्राप्ता ये हया-अश्वा गजाश्च-हस्तिनस्तैः सनाथ:-सहितः, पुनः सुरसुन्दा -निजस्त्रिया समेतो-युक्तोरिदमनकुमारो वर्या पुर्या यावदुज्जयिनीतो निर्गच्छति ॥१५९॥ तावत् सकलोपिनगरलोको भणति, अहो? इति आश्चर्येऽनयोः-कुमारकन्ययोरनुरुपो-योग्यः संयोगः-सम्बन्धः सञ्जात इति शेषः, च पुनः एषा सुरसुन्दरीकन्या धन्यास्ति यस्या एषोरिदमनकुमारो वरो भर्ता जातः ॥ १६०॥ पुनः तदवसरे केपि लोकाः राजानं प्रशंसन्ति, केपि वरं-कुमारं प्रशंसन्ति, केपि सुरसुन्दरी कन्यां प्रशंसन्ति, केपि लोकास्तस्याः-कन्याया उपाध्यायं-गुरुं प्रशंसन्ति, केपि पुनः शिवधर्म प्रशंसन्ति ॥ १६१॥
सि. सि.४
JainEducation india
For Private
Personal Use Only
jainelibrary.org