SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि- तं वेसरिमारोविअ, जा चलिओ उंबरो निअयठाणं । ता भणइ नयरलोओ, अहो अजुत्तं अजुत्तंति ॥ १४६ ॥ एगे भणंति घिद्धी, रायाणं जेणिमं कयमजुत्तं । अन्ने भणंति धिद्धी, एयं अइदुव्विणीयंति ॥ १४७ ॥ केवि निंदंति जणाणं, तीए निंदंति केवि उवझायं । केवि निंदंति दिव्वं, जिणधम्म केवि निंदति ॥ १४८ ॥ तहवि हु वियसियवयणा, मयणा तेणुंबरेण सह जंति । न कुणइ मणे विसायं, सम्मं धम्मं वियाणंती ॥१४९॥ उंबरपरिवारेणं, मिलिएणं हरिसनिब्भरंगेणं । निअपहुणो भत्तेणं, विवाहकिच्चाई विहियाइं ॥ १५० ॥ । तदनन्तरं स उम्बरो राजा तां कुमारी वेसरीमश्वतरीमारोप्य यावन्निजकं स्थानं प्रति चलितः, तावन् नगरलोक इति इत्थं भणति, किं इत्याह-अहो अयुक्तं अयुक्तं इदं कार्यमिति शेषः ॥ १४६ ॥ तस्मिन्नवसरे एके केचिल्लोका भणन्ति राजानं |धिक धिक्-धिक्कारोऽस्तु इत्यर्थः। राज्ञा इदं अयुक्तं कार्य कृतम् , अन्ये पुनर्लोका इति भणन्ति,एतां अतिदुर्विनीतां कन्यां विधिक यया पितुर्वचनं नाङ्गीकृतमित्यर्थः ॥ १४७ ॥ पुनस्तदा केपि लोकास्तस्याः कन्याया जननीं मातरं निन्दन्ति, केपि तस्या उपाध्यायं पाठकं निन्दन्ति, केपि दैवं भाग्यं निन्दन्ति, केपि पुनर्जिनधर्म निन्दन्ति ॥ १४८ ॥ 'हु' इति निश्चित तथापि मदनसुन्दरी कन्या विकसितं-विकस्वरं वदनं मुखं यस्याः सा एवम्भूता सती तेन उम्बरेण सह यान्तीगच्छन्ती, मनसि विषादन करोति, अत्र हेतुगर्भ विशेषणमाह-कीदृशी सा? यतः सम्यक धर्म विजानन्ती ॥ १४९ ॥ ततो मिलितेन उम्बरपरिवारेण विवाहकृत्यानि-विवाहकार्याणि विहितानि-कृतानि कीदृशेन उम्बरपरिवारेण-हर्षनिर्भराङ्गेन हर्षेण निर्भराङ्गेन निर्भरं-भृतं अङ्गं यस्य स तेन, पुनः कीदृशेन ? निजप्रभोः-स्वस्वामिनो भक्तेन ॥ १५० ॥ Jain Education For Private Personel Use Only kainoltrary arg
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy