________________
तं सोऊणं बाला, उट्टित्ता झत्ति उंबरस्स करं । गिण्हइ निययकरेणं, विवाहलग्गंव साहंती ॥ १४२ ॥ सामंतमंतिअंतेउरीउ वारंति तहवि सा बाला। सरयससिसरिसवयणा, भणइ सई सुच्चिअपमाणं ॥ १४३ ॥ एगत्तो माउलओ, एगत्तो रुप्पसुंदरी माया। एगत्तो परिवारो, रुयइ अहो केरिसमजुत्तं ? ॥ १४४ ॥ तहवि न नियकोवाओ, वलेइ राया अईव कढिणमणो । मयणावि मुणियतत्ता, निअसत्ताओ न पचलेइ॥१४५॥ तन्नृपवचः श्रुत्वा मदनसुन्दरीबाला कन्या तु उत्थाय झटिति-शीघ्रं निजकरण-स्वहस्तेन उम्बरराजस्य करं गृह्णाति, किं| कुर्वतीव ? विवाहलग्नं साधयन्तीव ॥१४२ ॥ सामन्ताः-मन्त्रिणः अन्तःपुर्योऽन्तःपुरनार्यश्च वारयन्ति, तथापि सा| बाला शरच्छशिसदृशवदना-शरच्चन्द्रतुल्यमुखी सती भणति, मम एष एव वरः प्रमाणं नान्येन कार्यमित्यर्थः ॥ १४३ ॥ तस्मिन्नवसरे एकतः-एकस्यां दिशि मदनसुन्दर्या मातुलो-मातुर्धाता पुण्यपालो रोदिति, एकस्यां दिशि रूप्यसुन्दरीमाता रोदिति, तथा एकतः परिवारस्तत्परिकरो रोदिति, अहो ! इदं कीदृशमयुक्तं कार्य जातमिति चिन्तयन्तस्ते सर्वे रुदन्तीत्यर्थः॥ १४४ ॥ तथापि राजा निजकोपात्-स्वकृतक्रोधान्न चलते-न निवर्त्तते इत्यर्थः, कीदृशो राजा? अतीव-अत्यन्तं कठिनं-कठोरं मनो यस्य स कठिनमनाः, मदनसुन्दर्यपि च निजसत्त्वात्स्वधैर्यान्न प्रचलति । कीदृशी सा? मुणितं-ज्ञातं तत्त्वं यया सा मुणिततत्त्वा ॥ १४५॥
Jain Educatie
For Private & Personal Use Only
vww.jainelibrary.org