SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Jain Educat सहसा वलिऊण तओ, नियआवासंमि आगओ राया । बुल्लावइ तं मयणासुंदरिनामं नियं धूयं ॥ १३२ ॥ हुं अज्जवि जइ मन्नसि, मज्झ पसायरस संभवं सुक्खं । ता उत्तमं वरं ते, परिणाविय देमि भूरि धणं ॥ १३३ ॥ | जइ पुण नियकम्मं चिय, मन्नसि ता तुज्झ कम्मणाणीओ । एसो कुडिअराणो, होउ वरो किं वियप्पेण ? ॥ १३४॥ | हसिऊण भणइ बाला, आणीओ मज्झ कम्मणा जो उ । सो चेव मह पमाणं, राओ वा रंकजाओ वा ॥ १३५ ॥ कोवंधेणं रन्ना, सो उंबरराणओ समाहूओ । भणिओ य तुममिमीए, कम्माणीओसि होसु वरो ॥ १३६ ॥ सहसाऽकस्मात्ततस्तस्मात् स्थानात् वलित्वा राजा निजावासे - स्वमन्दिरे आगतः आगत्य च तां मदनसुन्दरीनाम्नीं निजां पुत्र आह्वयति ॥ १३२ ॥ आहूय च किं कथयतीत्याह - हुं इत्यनादरे अरे ! त्वं अद्यापि यदि मम प्रसादसम्भवं मत्प्रसादोत्पन्नं सुखं मन्यसे तत्तर्हि ते तुभ्यं उत्तमं प्रधानं वरं भर्त्तारं परिणाय्य भूरि- प्रचुरं धनं दद्मि (दाम) - प्रयच्छामि ||| १३३ ॥ यदि पुनर्निजकम्मैव त्वं मन्यसे तत्तर्हि तव कर्म्मणा आनीत एष कुष्ठिकराजो वरो भवतु, किं विकल्पेन ?, इह विकल्पस्य - विचारस्य किमपि कार्य नास्तीत्यर्थः ॥ १३४ ॥ एतन्नृपवचः श्रुत्वा मदनसुन्दरीवाला हसित्वा भणति, यो मम कर्म्मणा आनीतः स एव वरो मम प्रमाणं राजा वा भवतु रङ्कजातो- रङ्कपुत्रो वा भवतु ॥ १३५ ॥ एतत्कन्यावचः श्रुत्वा कोपान्धेन राज्ञा स उम्बरराजः समाहूतः - स्वसमीपदेशे आकारितो भणितश्च । किं भणित इत्याह-त्वं अस्याः कर्म्मणा आनीतोऽसि तेन त्वं अस्या वरो भव ।। १३६ ॥ national For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy