SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जा तं करेइ मंती, गलिअंगुलिनामओ दुयं ताव । नरवर पुरओ ठाउं, एवं भणिउं समादत्तो ॥ १२२ ॥ सामिअ ! अम्हाण पहू, उंबरनामेण राणओ एसो । सव्वत्थ वि मन्निज्जइ, गरुएहिं दाणमाणेहिं ॥ १२३ ॥ तेणऽम्हाणं धणकणयचीरपमुहेहिं कीरइ न किंपि । एतस्स पसायेणं, अम्हे सव्वेवि अइसुहिणो ॥ १२४ ॥ किंच - एगो नाह ! समत्थि, अम्ह मणचिंतिओ विअप्पुत्ति । जइ लहइ राणओ राणियंति ता सुंदरं होइ ॥ १२५॥ | ता नरनाह ! पसायं, काऊणं देहि कन्नगं एगं । अवरेण कणगकप्पडदाणेणं तुम्ह पज्जत्तं ॥ १२६ ॥ यावत्तन्नृपभणितं वचनं मन्त्री करोति, तावद्गलिताङ्गुलिनामको मन्त्री द्रुतं शीघ्रं नरवरस्य - राज्ञः पुरतोऽग्रतः स्थित्वा एवं भणितुं कथयितुं समारब्धः - प्रारम्भं कृतवान् ।। १२२ ।। हे स्वामिन्! एषोऽस्माकं प्रभुः - स्वामी उम्बरनाम्ना राजा सर्व्वत्रापि गुरुकैर्महद्भिदनमानैर्मान्यते - नृपादिभिः सत्क्रियते इत्यर्थः ॥ १२३ ॥ तेन कारणेन अस्माभिर्धनकनकचीरप्रमुखैः किमपि न क्रियते, धनस्वर्णवस्त्रादिभिरस्माकं किमपि कार्य नास्तीत्यर्थः, एतस्य- उम्बरराज्ञः प्रसादेन सर्वेऽपि अतिशयेन सुखिनः स्मः ॥ १२४ ॥ परं हे नाथ ! एकोऽस्माकं मनश्चिन्तित इत्येवंस्वरूपो विकल्पोविचारोऽस्ति, यदि अस्माकं राजा इत्येवंस्वरूपां स्वोचितामित्यर्थः, राज्ञीं लभते तत्तर्हि सुन्दरं भवति - शोभनं स्यात् ॥ १२५ ॥ तत्तस्मात् हे नरनाथ ! हे राजन् ! प्रसादं कृत्वा एकां कन्यकां देहि अपरेण - अन्येन युष्माकं कनकवस्त्रादिदानेन पर्याप्तं - सृतं अपरेण नास्माकं कार्यमित्यर्थः ॥ १२६ ॥ वयं Jain Education ional For Private & Personal Use Only ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy