SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सामिय ! सरूवपुरिसा, सत्तसया नववया ससोंडीरा । दुटकुद्राभिभूया, सव्वे एगत्थ संमिलिया ॥ ११३ ।। एगोय ताण बालो, मिलिओ उंबरयवाहिगहियंगो। सो तेहिं परिगहिओ, उंबरराणुत्ति कयनामो ॥११४॥ वरवेसरिमारूढो, तयदोसी छत्तधारओ तस्स । गयनासा चमरधरा, घिणिघिणिसदा य अग्गपहा ॥ ११५॥ गयकन्ना घंटकरा, मंडलवइ अंगरक्खगा तस्स । ददुल थइआइत्तो, गलीअंगुलि नामओ मंती ॥ ११६ ॥ हे खामिन् ! सप्त शतानि-सप्तशतसङ्ख्याका नवं वयो येषां ते नववयसो युवान इत्यर्थः, सशौण्डीर्याः-पराक्रमवन्तः सरूपा-रूपवन्तः पुरुषा दुष्टकुष्ठरोगेण अभिभूताः-पीडिताः एते सर्वे एकत्र सम्मिलिताः सन्ति ॥ ११३ ॥ च पुनस्तेषां कुष्टिपुरुषाणां एको बालो मिलितोऽस्ति, कीदृशो बालः?-उम्बरकव्याधिना-कुष्ठरोगविशेषेण गृहीतमङ्गं यस्य स तथोक्तः स बालस्तैः कुष्ठिपुरुषैः परिगृहीतः-सगृहीतः कीदृशः?-उम्बरराणउ-इति कृतं नाम यस्य स तथोक्तः ।। ११४ ॥ |स बालो वरां-प्रधानां वेसरीमश्वतरी आरूढोऽस्ति, त्वग्दोषी-श्वेतकुष्ठी पुमान् तस्य उम्बरराजस्य छत्रधारकोऽस्ति, गतनासौ गलितनासिकौ पुरुषो चामरधरौ स्तः, तथा रोगवशात् घिणि घिणि इत्येवंशब्दो येषां ते एवंविधा नराः तस्याग्रपथाः सन्ति अग्रे पन्था येषां ते अग्रगामिन इत्यर्थः ॥११५।। गतौ-गलितौ कौँ येषां ते एवंविधा नराः तस्य घण्टाकरा घण्टावादिनः सन्तीत्यर्थः, |रक्तमण्डलरोगवन्तः पुरुषास्तस्य अङ्गरक्षकाः सन्ति, (दहुल)त्ति दद्ररोगी पुमान् "थइयाइत्तोति" स्थगीधरस्ताम्बूलधरोऽस्तीत्यर्थः, तथा-गलितागुलिनामको मन्त्री अस्ति ॥११६ ॥ Jain Educat i onal For Private & Personel Use Only a rww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy