________________
सिरिसिरि- ॐ तो गाढयरं राया, रुढो चिंतेइ दुब्वियङ्काए । एयाइ कओ लहुओ, अहं तओ वेरिणी एसा ॥ १०८ ॥ ॐ रोसेण वियडभिउडीभीसणवयणं पलोइऊण निवं । दक्खो भणेइ मंती, सामिय ! रइवाडियासमओ ॥ १०९॥ रोसेण धमधमंतो, नरनाहो तुरयरयणमारूढो । सामंतमंतिसहिओ, विणिग्गओ रायवाडीए ॥ ११० ॥ जाव पुराओ बाहिं, निग्गच्छइ नरवरो सपरिवारो । ता पुरओ जणवंदं, पिच्छइ साडंबरमियंतं ॥ १११ ॥ तो विम्हिएण रन्ना, पुढो मंती स नायवृत्तंतो । विन्नवइ देव निसुणह, कहेमि जणवंदपरमत्थं ॥ ११२ ॥
॥ १३ ॥
ततस्तदनन्तरं राजा गाढतरं - अत्यर्थं रुष्टः सन् चिन्तयति, किं चिन्तयतीत्याह - दुर्विदग्धया - अज्ञानवत्या एतया पुत्र्याऽहं लघुकः कृतस्ततस्तस्मात्कारणात् एषा मम वैरिणी वर्त्तते नतु पुत्रीतिभावः ।। १०८ ।। रोषेण - कोपेन विकटा - विकराला या भृकुटी तया भीषणं भयानकं वदनं मुखं यस्य स तं तथाविधं नृपं प्रलोक्य- दृष्टा दक्षचतुरो मन्त्री भणति, स्वामिन् ॐ राजवाटिकागमनसमयो वर्त्तते ॥ १०९ ॥ तदा रोषेण धमधमायमानो नरनाथः तुरगरत्नं-प्रवराचं आरूढः सामन्तैर्मन्त्रिभिश्व ॐ सहितः सन् राजवाटिकायां निर्गतः ॥ ११० ॥ यावन्नरवरो - राजा सपरिवारः - परिवारसहितः पुराद्धहिर्निर्गच्छति,
तावत् पुरतोऽग्रतः साडम्बरं - आडम्बरसहितं आयान्तं जनवृन्दं - मनुष्यसमूहं प्रेक्षते - पश्यति ॥ १११ ॥ ततो ज्ञातो वृत्तान्तो ॐ येन स ज्ञातवृत्तान्तः स मन्त्री अमात्यो विस्मितेन राज्ञा पृष्टः सन् विज्ञपयति, हे देव ! हे महाराज ! यूयं निशृणुत अहं जनवृन्दस्य | परमार्थ - भावार्थं कथयामि ।। ११२ ।।
Jain Educational
For Private & Personal Use Only
वालकहा ।
॥ १३ ॥
sww.jainelibrary.org