________________
सिरिसिरि-
वालकहा।
॥१२॥
हसिऊण भणइ मयणा, कयसुकयवसेण तुज्झ गेहमि । उप्पन्ना ताय! अहं, तेणं माणेमि सुक्खाइं॥९॥ पुवकयं सुकयं चिअ, जीवाणं सुक्खकारणं होइ । दुकयं च कयं दुक्खाण, कारणं होइ निब्मतं ॥ १० ॥ न सुरासुरेहिं, नो नरवरेहिं, नो बुद्धिबलसमिद्धेहिं । कहवि खलिज्जइ इंतो, सुहासुहो कम्पपरिणामो ॥१०॥ तो रुट्टो नरनाहो, अहो अहो अप्पपुन्निआ एसा । मझ कयं किंपि गुणं, नो मन्नइ दुव्वियट्ठाय ॥ १०२॥
तदा मदनसुन्दरी हसित्वा भणति, हे तात कृतसुकृतवशेन प्राग्भवोपार्जित पुण्यबलात् अहं तव गृहे उत्पन्नास्मि तेन सुखानि मानयामि अनुभवामि ॥ ९९ ॥ हे तात जीवानां पुर्वकृतं प्राग्भवोपार्जितं सुकृतं पुण्यमेव सुखस्य कारणं हेतुर्भवति, च पुनः दुष्कृतं पापं प्राग्भवेकृतं सत निभ्रान्तं निस्सन्देहं दुःखानां कारणं भवति ॥ १०० ॥ इन्तोति आयन् उदयमागच्छन् शुभाशुभः कर्मणां परिणामः कथमपि केनापि प्रकारेण सुरासुरैर्देवदानवैर्न स्खल्यते, न निराक्रियते नो नरवरै भूपतिभिः स्वल्यते, न पुनर्बुद्धिबलसमृद्धैः स्खलति, बुद्धिसमृद्धाः महाबुद्धयोबलसमृद्धाः महाबलवन्तस्तैरपि न दूरीक्रियते इत्यर्थः ॥ १०१ ॥ ततस्तद्वचनश्रवणानन्तरं नरनाथो राजा रुष्टः कुपितः सन् इत्युवाचेति शेषः, अहो अहो लोका एषा कन्या अल्पपुण्यिका हीनपुण्या च पुनर्दुर्विदग्धा चातुर्य्यरहितास्ति, अतएव मत्कृतं किमपि गुणं न मन्यते ॥ १०२॥
१ दूरीक्रियते ।
Jan Education
ellonal
For Private Personal use only