________________
जा कन्ना बहुपुन्ना, दिन्ना कुकुलेवि सा हवइ सुहिया । जा होइ हीणपुन्ना, सुकुले दिन्नावि सा दुहिया ॥९॥ ता ताय ! नायतत्तस्स, तुज्झनो जुज्जए इमो गव्वो। जं मज्झ कयपसयापसायओ सुहदुहे लोए ॥९५॥ जो होइ पुन्नबलिओ, तस्स तुमं ताय ! लहु पसीएसि । जो पुण पुण्णविहूणो, तस्स तुमं नो पसीएसि ॥ ९६ ॥ भवियव्वया सहावो, दवाइया सहाइणो वावि । पायं पुव्वोवज्जियकम्माणुगया फलं दिति ॥ ९७ ॥ तो दुम्मिओय राया, भणेइ रे तंसि मह पसाएण । वत्थालंकाराइ, पहिरंती कीसिमं भणसि ? ॥९८॥
या कन्या बहुपुण्या भवेत्, सा कुकुले-दरिद्रादिगृहे दत्तापि सुखिता-सुखिनी भवति, या तु हीनपुण्या भवति सा सुकुलेपि दत्ता दुःखिता भवति।।९४॥तस्मात्कारणात् हे तात ! ज्ञातं तत्त्वं येन स ज्ञाततत्त्वः तस्य तत्त्वज्ञस्य त गर्वो न युज्यते, यन्मम कृतप्रसादाप्रसादतो लोके सुखदुःखे भवतः, मत्कृतप्रसादतः सुखं मत्कृतात्प्रसादतो दुःखं भवतीत्यर्थः अयं गर्वस्तव न युक्तः।।९५ ॥ यः पुमान् पुण्यबलिकः-पुण्येन बलवान् भवति, तस्योपरि हे तात ! त्वं लघु-शीघ्रं प्रसीदसि-प्रसन्नो भवसि, यः पुनः पुण्यहीनो भवेत् तस्योपरि त्वं न प्रसीदसि ॥९६॥ भवितव्यता १ स्वभावो२ वा पुनद्रव्याद्या-द्रव्यक्षेत्रकालभावादयः साहाय्यकारिणोपि पूर्वस्मिन् भवे उपार्जितानि यानि कर्माणि तानि अनुगताः-तत्सम्मिलिता एव फलं ददति, न तु तद्वयतिरिक्ताः ॥ ९७ ।। ततश्च-तद्वचनश्रवणानन्तरं च राजा दुर्मनस्की भूतः सन् भणति, पुत्री प्रति कथयति, रे! त्वं मत्प्रसादेन वस्त्रालङ्कारादि |-विविधाद्भुतनेपथ्याभूषणादि परिधानासि, इदं प्रागुक्तं, पुनः कथं भणसि? ॥ ९८ ॥
Jain Education
For Private Personel Use Only
jainelibrary.org