________________
सिरिसिरि
॥ ११ ॥
Jain Education In
" सा पुण जिणवयणवियारसारसंजणियनिम्मलविवेआ। लज्जागुणिक्कसज्जा, अहोमुही जा न जंपेइ ॥ ८९ ॥ ताव नरिंदेण पुणो, पुट्ठा सा भणइ ईसि हसिऊणं । ताय ! विवेयसमेओ, मं पुच्छसि तंसि किमत्तं ॥ ९० ॥ जेण कुलबालिआओ, न कहंति हवेउ एस मज्झ वरो । जो किर पिऊहिं दिन्नो, सो चेव पमाणियव्वुत्ति ॥ ९१ ॥ अम्मापिउणोवि निमित्तमित्तमेवेह वरपयामि । पायं पुव्वनिबद्धो, संबंधो होइ जीवाणं ॥ ९२ ॥
जं जेण जया जारिसमुवज्जियं होइ कम्म सुहमसुहं । तं तारिसं तया से, संपज्जइ दोरियनिबद्धं ॥ ९३ ॥
जिनवचनानां यो विचारसारस्तेन सञ्जनितः समुत्पादितो निर्मलो विवेको यस्याः सात एव लज्जागुणे एकसज्जा अद्वितीयतत्परा सा पुनर्मदनसुन्दरी अधोमुखी सती यावन्न (नुत्तरं ददाति ॥ ८९ ॥ तावन्नरेन्द्रेण पुनः पृष्टा सा ईषद्धसित्वा भणति, राजानं प्रति कथयति-हे तात! त्वं विवेकसमेतो-विवेकयुक्तोऽसि मां प्रति अयुक्तं किं पृच्छसि ? विवेककलितस्य भवतो मां प्रति एतत्प्रच्छनम| युक्तमिति भावः ।। ९० ।। कुत इत्याह-येन कारणेन कुलबालिकाः सुकुलोत्पन्नाः कन्याः एवं न कथयन्ति मम एष वरो भवतु, किन्तु यः किल मातापितृभ्यां दत्तः स एव वरः प्रमाणयितव्यः प्रमाणीकर्त्तव्यः ॥ ९१ ॥ इह संसारे वरप्रदाने-कन्याया भर्तृप्रदानविषये मातापितरावपि निमित्तमात्रमेव न पुनस्तात्त्विककारणमिति भावः, प्रायो- बाहुल्येन जीवानां पूर्वस्मिन् भवे निबद्धो रचितः सम्बन्धो न भवति, प्रायः येन सह सम्बन्धो रचितो भवेत् तेनैव सह इह सम्बन्धो भवतीत्यर्थः ॥ ९२ ॥ येन प्राणिना यदा यस्मिन् काले यत्- यादृशं शुभमशुभं कर्म उपाज्जितं भवति तस्य प्राणिनस्तदा तस्मिन्काले तत्तादृशं कर्म सम्पद्यते - उदयमायाति कीदृशं तत् ? | दोरिकयानिबद्धमिव दोरिकानिबद्धम् ॥ ९३ ॥
*****
For Private & Personal Use Only
वालकहा ।
॥ ११ ॥
jainelibrary.org