________________
ता सव्वकलाकुसलो, तरुणोवररूवपुण्णलायन्नो। एरिसओ होउ वरो, अहवा ताओचिअ पमाणं ॥ ८४ ॥ जेणं ताय तुम चिय, सेवयजणमणसमीहियत्थाणं । पूरणपवणो दीससि, पच्चक्खो कप्परूक्खव्व ॥८५॥ तो तुट्टो नरनाहो, दिटिनिवेसेण नायतीइमणा । पभणेइ होउ वच्छे ! एसऽरिदमणो वरो तुज्झ ॥ ८६ ॥ तो सयलसभालोओ, पभणइ नरनाह! एस संजोगो । अइसोहणोऽहिवल्लीपूगतरूणं व निब्भतं ॥ ८७ ॥
अह मयणसुंदरीवि हु, रन्ना नेहेण पुच्छिया वच्छे !। केरिसओ तुज्झ वरो, कीरउ ? मह कहसु अविलंबं ॥८॥ का तर्हि सर्वकलासु कुशलःचतुरः पुनस्तरुणो यौवनवयःस्थस्तथा वररूपेण-प्रधानाकृत्या पुण्यं पवित्रं लावण्यं सौन्दर्य यस्य स वर-19
ईष्टको योऽयं पुमान् पुरोवर्ती स वरो भवतु, अथवा तात एव प्रमाणं तातोयं ददाति स एव वरोस्तु इत्यर्थः ॥८४॥ अथ सा निजेष्टसिद्धयर्थ । पितरं स्तौति, हे तात! येन कारणेन त्वमेव सेवकजनस्य मनःसमीहितार्थानां-मनोवास्छितकार्याणां पूरणे प्रवणः-स्तत्परो दृश्यसे, क इव ?-प्रत्यक्षः कल्यवृक्ष इव ॥८५॥ ततो नरनाथो राजा तद्वचनश्रवणात्तुष्टः सन् प्रभणति वक्ति, किं-वक्ति ? इत्याह-हे वत्से । एषोऽ रिदमनः कुमारः तव वरोऽस्तु, कीदृशो नरनाथः?-दृष्टिनिवेशेन-कुमारे दृष्टिस्थापनेन ज्ञातं तस्या मनो येन सः॥८६॥ततः सकल:समस्तः सभालोकः प्रभणति-हे नरनाथ ! एषोऽनयोः संयोगो निर्धान्त-निस्सन्देहं अतिशोभनः सञ्जात इति शेषः, कयोरिव-अहिवल्ली पूगतर्वोरिव-नागवल्लीकुमुकवृक्षयोरिख यथा तयोः संयोगो अतिशोभनोस्ति तथाऽनयोरपीत्यर्थः ॥ ८७ ॥ अथानन्तरं राज्ञा मदनसुन्दर्यपि स्नेहेन पृष्टा-हे वत्से ! तव कीदृशको वरोभर्ता मया क्रियतां ? ममाग्रेविलम्ब यथास्यात्तथाशीघ्रमित्यर्थः कथयस्व ॥८८॥
Jain Education
For Private & Personal Use Only
Sirjainelibrary.org